अत्र यद्यपि सौभाग्यादिप्रसिद्धिकृतसारूप्यं876 न विद्यते तथापि स्त्रिया उत्तमप्रार्थनमगर्हितत्वादनुगतमेव भवति । सोऽयं 877करणसाधनोत्पत्तिपक्षे उक्तः । भावसाधनपक्षे तु सहार्थादिविशिष्टा रतिर्दीप्तिर्वानुरागशब्देनोच्यते । 878प्रथमं चोपजायमानत्वादयं प्रथमानुराग इति 879प्रथते ॥

  1. ‘आनुरूप्यं’ क ख
  2. ‘करणसाधारणसाधनोत्पत्ति’ क, ‘करुणसाधारण’ ख
  3. ‘सर्वत्र’ इत्यधिकं क ख
  4. ‘प्रथते’ इत्यस्य स्थाने ‘प्रथमतो’ इत्यग्रे ‘संबद्धमास्ते’ क ख