326उदकक्ष्वेडिकाशो327कोत्तंसिका 328चूतभञ्जिका ।
पुष्पावचायिकां329 चूतलतिका330 भूतमातृका331 ॥ ९४ ॥
  1. गन्धोदकपूर्णवंशनाडीश्रृङ्गादिभिर्यूनां प्रियजनाभिषेककर्दमेन क्रीडा उदकक्ष्वेडिका
  2. यत्रोत्तमस्त्रियः पदाभिघातेनाशोकं विकाश्य तत्कुसुममवतंसयन्ति सा अशोकोत्तंसिका
  3. यत्राङ्गनाभिश्चूतमञ्जर्योऽवचित्यानङ्गाय बालरागत्वेनैव दायंदायमवतंस्यन्ते सा चूतभञ्जिका, ‘भूतभञ्जिका’ घ
  4. यत्र युवत्यो मदिरागण्डूषदोहदेन बकुलं विकाश्य तत्पुष्पाण्यवचिन्वन्ति सा पुष्पावचायिका
  5. यत्र कस्ते प्रियतम इति पृच्छद्भिः पलाशादिनवलताभिः प्रियो जनो हन्यते सा चूतलतिका
  6. पञ्चात्मनानुनयन्ती भूतमातृका