कदम्बयुद्धानि332 नवपत्रिका333 334बिसखादिका ।
335शक्रार्चा कौमुदी336 337यक्षरात्रिरभ्यूषखादिका338 ॥ ९५ ॥
  1. वर्षासु कदम्बनीपहारिद्रकादिकुसुमैः प्रहरणभूतैर्द्विधा बलं विभज्य कामिनीनां क्रीडा कदम्बयुद्धानि, कादम्बयुद्धानीत्यपि पाठः
  2. प्रथमवर्षणप्ररूढनवतृणाङ्कुरासु स्थलीषु शाद्वलमभ्यर्च्य भुक्तपीतानां कृत्रिमविवाहादिक्रीडा नवपत्रिका
  3. अभिनवबिसाङ्कुरोद्भेदाभिरामसरः समाश्रित्य कामिमिथुनानां क्रीडा बिसखादिका
  4. शक्रोत्सवदिवसः शक्रार्चा
  5. आश्विने पौर्णमासी कौमुदी
  6. दीपोत्सवो यक्षरात्रिः
  7. शमीधान्यानामार्द्राणामेवाग्निपक्वानामभ्यवहारोऽभ्यूषखादिका’ ‘अभ्युषखादिका’ इत्यपि पाठः