339नवेक्षुभक्षिका तोयक्रीडा340 341प्रेक्षादिदर्शनम् ।
565
342द्यूतानि 343मधुपानं च प्रकीर्णानीति जानते ॥ ९६ ॥
  1. प्रथमत एवेक्षुभक्षणं नवेक्षुभक्षिका
  2. ग्रीष्मादौ जलाशयावगाहनं तोयक्रीडा
  3. नाथादिदर्शनं प्रेक्षा
  4. आलिङ्गनादिग्लहा दुरोदरादिक्रीडा द्यूतानि
  5. रागोद्दीपनाय माध्वीकादिसेवा मधुपानम् । वात्स्यायनीये कामशास्त्रे क्रीडाद्वैविध्यं समस्या देश्याश्चेति मेदात् । तासु काश्चिद्विहाय सर्वा अपि नैताभ्यः पृथक् तत्रोल्लिखिताष्टीकाकर्त्रा व्याख्याता इत्यत्रापि तद्व्याख्यानं समुद्धृत्य विलिखामः—‘समस्याः क्रीडा आह—यक्षरात्रिः, कौमुदीजागरः, सुवसन्तकः । यक्षरात्रिरिति सुखरात्रिः । यक्षाणां तत्र संनिधानात् । तत्र प्रायशो लोकस्य द्यूतक्रीडा । कौमुदीजागर इति । आश्वयुज्यां हि पौर्णमास्यां कौमुद्या ज्योत्स्त्रायाः प्रकर्षेण प्रवृत्तेः । तत्र दोलाद्यूतप्रायाः क्रीडाः । सुवसन्तक इति । सुवसन्तो मदनोत्सवः । तत्र नृत्यगीतवाद्यप्रायाः क्रीडाः । एता माहिमान्यः क्रीडाः ॥ देश्या आह —सहकारभञ्जिका, अभ्यूषखादिका, बिसखादिका, नवपत्रिका, उदकक्ष्वेडिका, पाञ्चालानुवानम्, एकशाल्मली, कदम्बयुद्धानि, तास्ताश्च माहिमान्यो देश्याश्च क्रीडा जनेभ्यो विशिष्टमाचरेयुः । इति संभूयक्रीडाः । सहकारभञ्जिकेति । सहकारफलानां भञ्जनं यत्र क्रीडायाम् । अभ्यूष़खादिका फलानां विटपस्थानामग्नौ प्लोषितानां खादनं यत्र । बिसखादिका बिसानां मृणालानां खादनं यत्र । सरःसमीपवासिनामित्येते द्वे क्वचित्कचिद्दृश्येते । नवंपत्रिका प्रथमवर्षणेन प्ररूढनवपत्रासु वनस्थलीषु या क्रीडा सा प्रायेणाटवीसमीपवासिनामाटविकानां च । उदकक्ष्वेडिकेति । ‘वंशनाडी स्मृता क्ष्वेडा सिंहनादश्च कथ्यते’ इति । उदकपूर्णा क्ष्वेडा यस्यां क्रीडायां सा मध्यदेश्यानाम् । यस्याः श्रृङ्गक्रीडेति प्रसिद्धिः । पाञ्चालानुयानम् । भिन्नालापचेष्टितैः पाञ्चालक्रीडा यथा मिथिलायाम् । एकशाल्मली एकमेव महान्तं कुसुमनिर्भरं शाल्मलीवृक्षमाश्रित्य तत्रत्यकुसुमाभरणानां क्रीडा । यथा वैदर्भाणाम् । यवचतुर्थी वैशाखशुक्लचतुर्थ्या श्रावणशुक्लतृतीयायां हिन्दोलक्रीडा । मदनोत्सवो मदनप्रतिकृतिपूजनम् । दमनभञ्जिका परस्परं सुगन्धपुष्पविशेषावतंसनम् । होलाका ... ... .... । अशोकोत्तंसिका अशोकपुष्पैः शिरोभूवणरचना । पुष्पावचायिका पुष्पक्रीडा । चूतलतिका चूतपल्लवावतंसनम् । इक्षुमञ्जिका इक्षुखण्डमण्डनम् । कदम्बयुद्धानि कदम्बकुसुमैः प्रहरणभूतैद्विधां बलं विभज्य युद्धानि । कदम्बग्रहणं कुसुमसुकुमारप्रहरणसूचनार्थम् । यष्टीष्टकादियुद्धानि तु न कार्याणि । यथा पौण्ड्राणां युद्धं क्वचित्कचिद्दृश्यते । तास्ताश्चेति । या या लोके प्रवृत्तिपूर्वाः । माहिमान्य इति महिमा महत्त्वं तद्विद्यते यासामिति । ‘संज्ञाया मन्माम्याम् ५।२।१३७’ इति निप्रत्ययः । सर्वदेशव्यापिन्य इत्यर्थः । देशे भवा देश्याः । प्रादेशिन्य इत्यर्थः । जनेभ्यो विशिष्टमिति घटादयो नागरकाणामिति । समस्यास्तु साधारणाः । तत्र जना नागरकाश्च क्रीडन्ति । तस्मात्तेभ्यो विशिष्टमाचरेयुः नागरत्वद्योतनार्थम् । संभूयक्रीडा इति । आसु नागरकाणां द्रव्यमुपहार्य संभूयक्रीडनात् । कन्दर्पचूडामणिकर्ता वीरभद्रोऽपि—‘कुर्याच्च यक्षरात्रिं सुखरात्रिः सा च कथ्यते लोके । ऐक्यं कोजागरया कौमुद्यास्तत्र निर्दिष्टम् ॥ सुवसन्तकोऽत्र शास्त्रे भवति वसन्तस्य वासरः प्रथमः । बिसखादिका सरस्यां बिसभुक्तिः कीर्तिता लोकैः ॥ मदनार्थिताम्रकुसुमैरवतंसे चाम्रभञ्जिका प्रोक्ता । अभ्यूषखादिकैवं ज्ञातव्या ग्रन्थतः परतः ॥ अन्योन्यं जलसेकः पानीयक्ष्वैडिकेरिता विबुधैः । कृत्रिमविवाहलीला कथिता नवपत्रिका त़ज्ज्ञैः ॥ कृत्रिमपुत्रकलीला स्यादनुयानं तथा तु पाञ्चाल्याः । शाल्मल्यामधिरुह्य क्रीडैका शाल्मली कथिता ॥ युद्धं कदम्बमुकुलैः प्रविभज्य बलं परस्परं यत्र । स्यात्तत्कदम्बयुद्धं कुर्यादन्यास्तथा लीलाः ॥’ इति जयमङ्गलाकर्तुरनुव्याचष्टे ।