अत्रोर्वशी990विरहात्पुरूरवा उत्तरां 991कामावस्थां प्रपन्नः प्रियाप्राप्तौ प्रेत्येव प्रत्युज्जीवितस्तदेवानुसंधत्ते । सोऽयं प्रमापणार्थः प्रवाससिद्धस्तदनन्तरेऽपि समाससामर्थ्यादनुवर्तते । कः पुनरत्र समासः । षष्ठीतत्पुरुष एव । का वृत्तिः992 । न तावदनुत्सृष्टस्वार्था, नहि प्रोष्यसमागतयोः प्रवाससंबन्धोऽपि विद्यते । उत्सृष्टस्वार्था तदिह भवतु । युक्तं पुनर्यदुत्सृष्टस्वार्था नाम वृत्तिः स्यात् । बाढं युक्तम् । एवं हि दृश्यते लोकेपुरुषोऽयं परकर्मणि प्रवर्तमानः स्वकर्मोत्सृजति । तद्यथा तक्षा राजकर्मणि प्रवर्तमानस्तक्षकर्मोत्सृजति । नन्वेवं सति राजपुरुषमानयेत्युक्ते पुरुषमात्रस्यानयनं प्राप्नोति । नैष दोषः । उत्सृजन्नप्ययं स्वार्थं नात्यन्तायोत्सृजति, यः परार्थविरोधी स्वार्थस्तमेवोत्सृजति । तद्यथा तक्षा राजकर्मणि प्रवर्तमानस्तक्षकर्मोत्सृजति न तु स्थितविहसितकम्पितादीनि । न चायमर्थः परार्थविरोधी विशेषणं नाम । तस्मान्नोत्स्रक्ष्यति ॥

  1. ‘विरहे’ क ख
  2. ‘कामावस्थामापन्नः’ क ख
  3. ‘कात्र वृत्तिः’ क ख