663 बुद्धेः प्रतिपादनोपाय एव । 1017अपथाभिनिविष्टो ह्ययं क्रमेण तस्मादपथा1018न्निवर्तयितव्यः । ततोऽस्याप्रत्यभिज्ञायमानप्रकृतयः श्रोत्रियक्षत्रियादयो दर्श्यन्ते । न ह्यत्र प्रकृतिरूपमवसीयते । यतः प्रकृत्यर्थावच्छिन्नः प्रत्ययार्थोऽभिधीयते । ततोऽनवसीयमानावयवविभागा रूढयः काश्चिदुपन्यस्यन्ते । यत्रात्यन्तमसंभवोऽवयवार्थस्य यथा—शक्रगोपाः, तैलपायिकाः, 1019मण्डपेति । पुनः कदाचित्संनिहितावयवार्था जातिविशेषाभिधायिनः सप्तपर्णकृतमालादय उदाह्रियन्ते । यतः प्रपलाशोऽप्यनुद्भिन्नपलाशोऽपि च वनस्पतिः सप्त पर्णान्यस्य पर्वणि पर्वणीति सप्तपर्ण इत्याख्यायते । तथा निःकीर्णकुसुमस्तरुरनारब्धकलिकाजालकोऽपि कृता मालानेनेति कृतमाल इत्यभिधीयते । अथ च1020 पञ्चाङ्गुलमिवाश्वकर्ण इव पर्णमस्येत्युपचरितार्थावयवा जातिवाचिन एव पञ्चाङ्गुलाश्वकर्णादयो वर्ण्यन्ते । तेषु हि पञ्चाङ्गुलादिव्यपदेशः प्रोद्भिद्यमानप्रवालमपि यावदनुवर्तते । ततः 1021संनिधानेऽप्यनाश्रीयमाणवृत्तिपदार्था1022 लोहितशालिर्गौरखर1023 इत्यादयो निगद्यन्ते । तत्र हि सन्नपि वर्णविशेषः समुदायस्य जातिवचनत्वाच्छब्दार्थत्वेन नावसीयते । तदेवमयं शकलीकृतवृत्तिपदार्थाभिनिवेशः प्रथमानुरागानन्तरादाविव राजपुरुषादावप्यवयवाभिनिवेशं शक्यते त्याजयितुम् । अत एव प्रथमानुरागादीनां विप्रलम्भसंभोगादीनां च पारिभाषिकोऽपि संसर्गः संनिधीयत इति ॥

  1. ‘अयथाभिनिविष्टो’ ख
  2. ‘अपदार्थात्’ क
  3. ‘मण्डप इति’ क ख
  4. ‘च’ क ख ग नास्ति
  5. ‘संनिधीयमानेऽपि’ क ख
  6. ‘पदार्थाः’ ख
  7. ‘गौरस्वरः’ ख