671
[स्तोकारूढमधुमदा क्षणविस्मृतिरपराधदत्तोल्लापा ।
हसित्वा संस्थाप्यते प्रियेण संस्मृतलज्जिता कापि प्रिया ॥]
प्रेमप्रकारे विप्रियादिभिरप्यविनाशनीयो नित्यो यथा—
[दृष्टा कुपितानुनया प्रिया सहस्नजनप्रेरणमपि विसोढम् ।
यस्य निषण्णयोरसि श्रिया प्रेम्णा लघूकृत आत्मा ॥]
तपश्चरणादिजन्मा नैमित्तिको यथा—
इयेष सा कर्तुमवन्ध्यरूपतां समाधिमास्थाय तपोभिरात्मनः ।
अवाप्यते वा कथमन्यथा द्वयं तथाविधं प्रेम पतिश्च तादृशः ३२३’
अनिर्धारितविशेषः सामान्यो यथा—
[1107कुपिता अपि प्रसन्ना अवरुदितमुख्योऽपि समानाः ।
यथा गृहीतास्तथा हृदयं धारयन्तीव निर्वृतिं बालाः ॥]
निर्धारितविशेषप्रकारो विशेषवान् यथा—
- ‘विसहिआम्’ क, ‘विसहिआ’ ख↩
- ‘णिसण्णइ’ क↩
- ‘सिरीअ’ क↩
- ‘लहुअइओ’ क ख↩
- ‘कुविआअ’ ख, ‘कुविआअ’ क ग↩
- ‘ओरण्णमुहीओ’ क, नास्ति ।‘ओणामुहीओ’ ख↩
- ‘विसमाणीओ’ इत्यादि गाथांशः—ग त्रुटित एव↩
- ध्वन्यालोके त्वियमेव गाथैवमुदाहृता—‘कुविआओ पसण्णाओ ओरण्णमुहीओ विहसमाणाओ । जह गहिओ तह हिअअं हरन्ति उच्छिन्तमहिलाओ ॥’ [कुपिताः प्रसन्ना अवरुदितवदना विहसन्त्यः । यथा गृहीतास्तथा हृदयं हरन्ति स्वैरिण्यो महिलाः ॥] इति च्छाया च↩
- ‘माणिईणी'(?) क↩
- ‘दूरे वि’ क↩
- ‘गरूअ’ ख↩
- ‘भणिषेण’ क, ‘भणिएइ’ ख↩