‘श्लाघ्यानां गुणिनां धुरि स्थितवति श्रेष्ठान्ववाये1182 त्वयि प्रत्यस्तव्यसने महीयसि परं प्रीतोऽस्मि जामातरि ।
679
तेनेयं मदयन्तिकाद्य भवतः प्रीत्यै भवत्प्रेयसे1183 मित्राय प्रथमानुरागघटिताप्यस्माभिरुत्सृज्यते ॥ ३५३ ॥’
  1. Dr. R. G. Bhandarkar संपादिते मालतीमाधवे तु ‘श्रेष्ठान्वये च त्वयि’ इति पाठः
  2. ‘तव प्रेयसे’ मुद्रिते मालतीमाधवे