680
नायकेषु सर्वगुणसंपद्योगादुत्तमः । स यथा—
‘रामोऽयं जगतीह विक्रमगुणैर्यातः प्रसिद्धिं परामस्मद्भाग्यविपर्ययाद्यदि परं देवो न जानाति तम् ।
बन्दीवैष यशांसि गायति मरुद्यस्यैकबाणाहतिश्रेणीभूतविशालतालविवरोद्भूतैः स्वरैः सप्तभिः ३५८’
पादोनगुणसम्पद्योगान्मध्यमो यथा—
अर्धगुणसम्पद्योगात्कनिष्ठो यथा—
‘एकस्मिञ्शयने मया मयसुतामालिङ्ग्य 1193निद्रालसा-
मुन्निद्रं शयितेन मच्चरणयोः संवाहनव्यापृता ।
पादाग्रेण तिलोत्तमा स्तनतटे सस्नेहमापीडिता
हर्षावेगसमर्पितानि पुलकान्यद्यापि नो मुञ्चति ॥ ३६० ॥’
सत्त्वप्रधानः सात्त्विको यथा—
‘शक्त्या वक्षसि मग्नया सह मया मूढे प्लवङ्गाधिपे
निद्राणेषु च विद्रवत्सु कपिषु प्राप्तावकाशे द्विषि ।
मा भैष्टेति निरुन्धतः कपिभयं तस्योद्भटभ्रूस्थिते-
र्मर्मच्छेदविसंष्ठुलाक्षरजडा वाचस्त्वया न श्रुताः ३६१’