‘शक्त्या वक्षसि मग्नया सह मया मूढे प्लवङ्गाधिपे निद्राणेषु च विद्रवत्सु कपिषु प्राप्तावकाशे द्विषि ।
मा भैष्टेति निरुन्धतः कपिभयं तस्योद्भटभ्रूस्थिते- र्मर्मच्छेदविसंष्ठुलाक्षरजडा वाचस्त्वया न श्रुताः ३६१’