अत्र भावतो 1456वाक्प्रवृत्तिर्भाविकत्वम्, प्रसिद्धार्थपदता प्रसादः, 1457प्रियार्थपदोपादानं प्रेय इति शब्दगुणाः, एह्येहीति पुनरुक्तम्, वत्से-709 त्युक्त्वा त्वत्पादाब्जद्वयं वन्द इति विरुद्धम्, मूर्ध्नि चुम्बामि हृदि वहामीत्यादौ वन्द इति क्रियास्वनुपयोगात् 1458पूर्णचन्द्रेतिदर्शनादिक्रियोपयोगि व्यर्थं चेति 1459दोषगुणाः संकीर्यन्ते । रसाक्षिप्तचित्तादौ हि पुनरुक्तादयो 1460न दुष्यन्ति ॥

  1. ‘वाक्प्रतिपत्तिः’ क ख
  2. ‘प्रियार्थपदोपादानम्’ क ख
  3. ‘पूर्णचन्द्रनिदर्शनादि—’ ख
  4. ‘दोषगुणाः परस्परं संकीर्यन्ते’ क ख
  5. ‘न’ ग नास्ति