अत्र दीप्तरसत्वं कान्तिः, अर्थप्राकट्यं प्रसादः, उक्तार्थनिर्वहणं प्रौढिरित्यर्थगुणाः, दैवहतिके विषपादपोऽयं पाप इत्यमङ्गलार्थं ग्राम्यं, किमनेन संवर्धितेनेत्यत्र मदनज्वरसंनिपाता इत्यत्र च कृत्यप्रयोजनादेर्विरहिणो द्रष्टुरित्यादेश्चाध्याहारादसंपूर्णवाक्यतायामर्थव्यक्तिविपर्ययः । अस्मिन्विकासविकारभाजीति विकासशब्दस्य पुष्पविषयत्वाद्वृक्षेऽपि प्रयोगोऽवाचकत्वादसमर्थ इति दोषगुणा मिथः संकीर्यन्ते । यतो रसाक्षेपात्परिहासलेशोक्त्यामङ्गलम्, प्रविश पिण्डीं द्वारं भक्षय इति न्यायात्प्रसिद्धाध्याहारः, ‘दरी वदति, मञ्चाः क्रोशन्ती’ ति प्रयोगदर्शनादाधाराधेययोरभेदोपचारश्च विरुद्धलक्षणादिभिः प्रयुज्यमानो न दोषायेति ॥