स यद्यपि व्यक्ताव्यक्तोभयात्मतया तिलतण्डुलकादिभेदैः प्रधानाङ्गभावसमकक्षताभ्यां पुरस्तादुक्तः तथापि तेषां गुणादिसंकरासाधारण-710 त्वात्संप्रति साधारणः प्रकार उच्यते । स षोढा शब्दालंकारसंकरः, अर्थालंकारसंकरः, उभयालंकारसंकरः शब्दार्थालंकारसंकरः, 1461शब्दार्थोभयालंकारसंकरः, अर्थोभयालंकारसंकरश्च1462 । तेषु शब्दालंकारसंकरो यथा—

  1. ‘शब्दोभयालंकारसंकरः’ ख
  2. अत्र ‘च’ इत्यधिकं क ख