अत्र चम्पकादीनां प्रदीपशिखाभिराकारकान्तिभ्यामुपमा,1473 विरहिणीहृदयदाहोद्या1474नद्योतनार्थक्रियाभ्यां साम्यं, 1475कज्जलपटलानामिव भ्रमरपटलानामुपरि मेलनान्मेलितं, चम्पकदीपकलिकयोरिव भ्रमरकज्जलपटलयोरौपम्यादिसंबन्धात्समुच्चय इत्युभयालंकाराश्चत्वारो1476 मिथः संकीर्यमाणा उपलभ्यन्ते ॥

  1. ‘आकारकान्तिमुपमां’ क
  2. ‘विरहिणीहृदयदाहोद्यमद्योतनार्थक्रियाभ्यां’ क, ‘विरहिणीहृदयदाहप्रद्योतनार्थक्रियाभ्यां’ ख
  3. ‘कज्जलपटलानामिवोपरि’ क, ’कज्जलपटलानामुपरि’ ख
  4. ‘चत्वारो मिथः संकीर्यन्ते’ क, ‘चत्वारोऽपि संकीर्यन्ते’ ख