713 गुणप्रधानः, अर्थगुणप्रधानः, 1491दोषगुणप्रधानः, शब्दालंकारप्रधानः, अर्थालंकारप्रधानः, उभयालंकारप्रधानश्च1492 ॥
तेषु शब्दगुणप्रधानो यथा—
अत्र हेतूत्प्रेक्षाभिधाने त्वयीत्यादौ पदे विष्णोः स्वरूपाध्यासेन तद्भावापत्तौ समाधेरिह प्राधान्यं1496 प्रतीयते । ननु चायमर्थस्य प्राकट्यात्प्रसादोऽर्थगुणः कस्मान्न भवति । अस्मिन्नपि तव्द्यपदेशेन शब्दशक्तेराधिक्यात् । ननु च त्वयि इति, एष इति, अस्य इति, 1497युष्मदेतदिदमां न कश्चन1498 विष्णुवाची 1499स कथं वर्णनीये न्यस्तस्तं तमर्थमभिदधीत । उच्यते, सर्वनामत्वेनैषां सर्ववाचित्वात् । सर्वनामानि हि 1500सर्वाभिधायीन्यपि 1501प्रकरणादिगम्यं विशेषमेव ब्रुवते स च इह प्राप्तश्रीरित्येवमादिमिरभिव्यक्त1502मेवावगम्यत इति ॥
अर्थगुणप्रधानो यथा—
- ‘दोषालंकारप्रधानः’ क↩
- ‘इति’ इत्यधिकं क ख↩
- ‘मथितुं मन्दरं वा’ ख । पद्यमेतद् ध्वन्यालोके (२।३०) ऽप्युदाहृतम्↩
- ‘नाप्यहं तर्कयामि’ क↩
- ‘विदधति’ क↩
- ‘समाधेः प्राधान्यमिह’ क ख↩
- ‘युष्मदेतदिदमदः’ क, ‘युष्मदस्मदिदमां’ घ↩
- ‘कश्चिन्न विष्णुवाची’ क↩
- ‘स कथं वर्णनीये वस्तुनि तमर्थमभिदध्यात्’ क ख↩
- ‘सर्वनामाभिधायीन्यपि’ क ख↩
- ‘प्रकरणादिगम्यं विशेषमर्थं च ब्रुवते’ क, ‘प्रकरणादिगम्यविशेषमिव ब्रुवते’ ख↩
- ‘अभिव्यक्तमेवाभिगम्यते इति’ क, ‘अभिव्यक्त एवाभिगम्यते इति’ ख↩