अत्र हेतूत्प्रेक्षाभिधाने त्वयीत्यादौ पदे विष्णोः स्वरूपाध्यासेन तद्भावापत्तौ समाधेरिह प्राधान्यं1496 प्रतीयते । ननु चायमर्थस्य प्राकट्यात्प्रसादोऽर्थगुणः कस्मान्न भवति । अस्मिन्नपि तव्द्यपदेशेन शब्दशक्तेराधिक्यात् । ननु च त्वयि इति, एष इति, अस्य इति, 1497युष्मदेतदिदमां न कश्चन1498 विष्णुवाची 1499स कथं वर्णनीये न्यस्तस्तं तमर्थमभिदधीत । उच्यते, सर्वनामत्वेनैषां सर्ववाचित्वात् । सर्वनामानि हि 1500सर्वाभिधायीन्यपि 1501प्रकरणादिगम्यं विशेषमेव ब्रुवते स च इह प्राप्तश्रीरित्येवमादिमिरभिव्यक्त1502मेवावगम्यत इति ॥

  1. ‘समाधेः प्राधान्यमिह’ क ख
  2. ‘युष्मदेतदिदमदः’ क, ‘युष्मदस्मदिदमां’ घ
  3. ‘कश्चिन्न विष्णुवाची’ क
  4. ‘स कथं वर्णनीये वस्तुनि तमर्थमभिदध्यात्’ क ख
  5. ‘सर्वनामाभिधायीन्यपि’ क ख
  6. ‘प्रकरणादिगम्यं विशेषमर्थं च ब्रुवते’ क, ‘प्रकरणादिगम्यविशेषमिव ब्रुवते’ ख
  7. ‘अभिव्यक्तमेवाभिगम्यते इति’ क, ‘अभिव्यक्त एवाभिगम्यते इति’ ख