अत्र ‘व्यावर्तनैरहिपतेरयमाहिताङ्कः’ इति ज्ञापकहेतोः ‘खं व्यालिखन्निव’ इति उत्प्रेक्षावयवाच्च, देवासुरैरिति 1505नित्यवैराविवक्षायां बहुवचनम्, ‘अमृतमम्बुनिधिर्ममन्थे’ इति द्विकर्मकेष्वपि मथिप्रभृतीनामुपसंख्यानमिति अमृतशब्दाद्द्वितीया इति दोषगुणयोः प्राधान्यं प्रतीयते । ननु चात्रार्थस्य 1506प्राधान्यं कथं भवति तद्विषयस्य ज्ञापकहेतुनापहृतत्वात्सोऽप्यर्थालंकार एव । गुणालंकारयोश्च तुल्यकक्षतायामलंकारः प्रधानं भवति न गुणः । गुणैर्हि गुणभूतैरेवालंकाराः प्राय आरभ्यन्ते । तद्यथा—

  1. ‘नित्यविवक्षायाम’ ख
  2. ‘प्राधान्यं न भवति’ क ख