सेयं गुणानां रसारम्भकत्वे संकराप्रसिद्धिः । एवं रसानां गुणारम्भकत्वेऽपि । तद्यथा—रूढाहंकारतौर्जित्यम्, 1569भावतो वाक्प्रवृत्तिर्भाविकत्वम्, 1570क्रोधादावप्यतीव्रता, माधुर्यम्, आशयोत्कर्षः, उदात्तत्वम्, अर्थस्याभीष्टतमता, 1571प्रेयः, दीप्तरसत्वं, कान्तिरिति । यत्र तु तिलतन्दुलवत्1572 क्षीरनीरवच्छायादर्शवत् तुल्यकक्षतयैव गुणरसानां 1573वाक्येऽपृथक्प्रयत्ननिर्वर्त्यानां विनिवेशस्तत्र संकरव्यवहारः प्रवर्तत एव । स षोढा—गुणप्रधानः—रसप्रधानः, उभयप्रधानः, उभयाप्रधानः, गुणाधिकः, रसाधिक इति ॥

  1. ‘भावतो वाक्प्रवृत्तिः’ क, ‘भावयतो वाक्यवृत्तिः’ ख
  2. ‘क्रोधादावप्यस्य तीव्रत्वं’ क, ‘क्रोधादावपि तीव्रता’ ख
  3. ‘अर्थस्याभीष्टतन्मयता’ ख
  4. ‘तिलतण्डुलवत्’ क ख
  5. ‘वाक्ये पृथक् प्रयत्न’ क ख