अत्र मालत्या माधवविषये पूर्वमुत्पन्ना रतिर्वसन्तावतार386तत्संनिधिविशेषप्रदर्शनादिभिरुद्दीप्यमाना पुनः पुनरुत्पन्नेन वलितग्रीवकटाक्षविक्षेपलक्षणेन शरीरारम्भानुभावेनानुबध्यते । अत्रैव387 माधवस्य मालतीविषये तदहरेवोत्पन्ना रतिस्तैरेवोद्दीपनैरुद्दीप्यमाना हर्षधृतिस्मृतिमतिव्याध्यादिभिः संचारिभावैर्वागारम्भेण चानुभावेनानुबध्यते ॥

  1. ‘वसन्तावतारतः संनिधिविशेष’ घ
  2. ‘अत्र च’ घ पुस्तके पाठान्तरम्