अत्र कस्याश्चित्सखीविख्यातमानसंविधानकोपान्मानवत्याः प्रियसंदर्शनादालम्बनविभावादुत्पन्नप्रकृष्टरतिप्रभवे1637 प्रहर्षस्थायिभावे 1638तत्पार्श्वोपसर्पणादिभिरुद्दीपनविभावैरुद्दीप्यमाने1639 समुत्पद्यमानेषु1640 1641पुलकादिषु मुखात्मकेषु व्यभिचारिषु नयननिमीलनाधोमुख्यनीवीविस्रंस1642नादिभिरनुभावैः प्रकर्षणारोपणादानन्दरस1643तामापाद्यमाने स्थायिनि प्रबलविरोधिभावान्तरोदयादेतेभ्य एव कारणेभ्यः प्रतिक्षणमपचीयमानयोर्लज्जारोषयोः प्रशमसंकराभिभूय प्राधान्येनोपमासहोक्तिः 1644प्रकाशते ॥

  1. ‘रतिप्रभवहर्षस्थायिभावे’ क, ‘रतिप्रभवे’ प्रहर्षस्यापि भावे’ ख
  2. ‘तत्पार्श्वेऽपि समर्पणादिभिः’ क
  3. ‘उद्दीप्यमानेषु’ क
  4. ‘समुत्पद्यमानेषु’ क नास्ति
  5. ‘पुलकादिषु समुत्पद्यमानेषु व्यभिचारिषु’ क ख
  6. ‘विश्रंसनादिभिः’ ख
  7. ‘आनन्दरसानाम्’ ख
  8. ‘संकीर्यते’ क ख