1662अत्रारविन्दानि ‘मुग्धे तव मुखश्रियमाक्षिपन्तीति’ उपमा, ‘कोष-733 दण्डसमग्राणां किमेषामस्ति दुष्करम्’ इति श्लेषोपसर्जनार्थान्तरन्यासः । 1663भवन्ति चारविन्दानि कोषदण्डसमग्राणि 1664तेन तेषां न किंचिदशक्यमस्ति कोषदण्डयोर्विजयसाधनत्वात् । एतेन श्लेषस्य 1665साधनभूतार्थसमर्थकत्वादुपमायास्तु प्रस्तुतसाध्यवस्तुविशेषकत्वादर्थान्तरन्यासं प्रत्यङ्गभावो विज्ञायते ।

  1. ‘अत्र—’ इत्यारभ्य ‘दुष्करम्’ इत्यन्तः पाठो ग घ नास्ति
  2. ‘प्रभवन्ति’ क ख
  3. ‘तेन किं तेषां’ क ख
  4. ‘साधनमानभूतार्थ’ ख