न चोपमायामेवेवशब्दो भवति । तद्यथा कथमिवैतद्भविष्यति । अस्तु वा लिम्पतितमसोरुपमानोपमेयभावस्तथापि तुल्यधर्मो न दृश्यते य उपमानोपमेयभावाय प्रभवति । किमन्यैन लेपनमेव भवति तर्हि लिम्पतिना1675 केन भाव्यम् । न हि लेपनं लिम्पेः पृथग्मवितुमीष्टे । ननु चेह द्वयं चकास्ति थातुर्लिम्पति तदर्थश्च1676 लेपनम् । मैवम् । एवं सति लिम्पतिरिवेति स्यात् न तु लिम्पतीवेति । अथ यथा राहोः शिरः इति भेदाभावेऽप्यवयवावयविभावस्तथेह धर्मधर्मिभावो भविष्यति । मैवम् । उपमानोपमेयभावस्य भेदसादृश्यप्रतिपत्तिनिबन्धनत्वात् तदभावेऽपि यस्तन्मनुते स कथं नोन्मत्तः स्यात् ।

  1. ‘नलिम्पतिना’ क
  2. ‘शब्दार्थश्च’ क