736 माक्षिपति । न चेह लक्षितलक्षणाविरुद्ध1687लक्षणादयोऽपि वर्तन्ते, यथा ‘प्रिये जने नास्ति पुनरुक्तं’, ‘स्वल्पैरसावपि न दृश्यत एव कालैः’ इति । न च 1688शब्दन्यायविलङ्घिनी पदार्थव्युत्पत्तिः प्रेक्षावद्भिराद्रियते । यद्यप्यध्याहारादिभिरिदमपि स्यात्तथापि तुल्यधर्मो मार्गणीयस्तद्वदेव विप्रतिपत्तेः ॥ न चेन्दुमुखादिवदनभिधीयमानस्यापि तुल्यगुणस्य प्रत्ययो भवतीति वाच्यम् ।
वाक्यवदेव प्रबन्धेष्वनौचित्यपरिहारेण गुणालंकारसंकरनिवेशो भवति । तत्रानौचित्यपरिहारो यथा—मायया कैकेयीदशरथाभ्यां रामः प्रलम्भितो न मातापितृभ्यामिति निर्दोषदशरथे; राममेव योधयन् रामेण वाली निहतो न सुग्रीवेणेति महावीरचरिते; रुधिरप्रियराक्षसेन दुःशासनस्य रुधिरं पीतं न भीमसेनेनेति वेणीसंहारे; दुर्वाससोऽपध्यानाद्दुष्यन्तः शकुन्तलास्वीकारं विसस्मार, 1690नानावस्थितितानुरागतयेति शाकुन्तले; लवणप्रयुक्तराक्षसाभ्यां वा सोपस्करेण 1691तदभिधाय सीता परित्याजिता न कैकेयीमन्थराभ्यामिति छलितरामे; किंच दग्धायामपि