अत्र माधवस्य मालत्यां पूर्वमुत्पन्ना रतिस्तदवस्था400लोकनादिभिरुद्दीपनविभावैरुद्दीप्यमाना भयशोकविस्मयक्रोधहर्षैरपि रसान्तरैः पृथक्पृथग्विभावानुभावव्यभिचारिसंयोगान्निष्पद्यमानैः संकीर्यमाणा मनोवाग्बुद्धि401शरीरारम्भानुभावैर्भयाद्यनुरूपैश्च सात्त्विकव्यभिचारिभिः संपर्के परं प्रकर्षमारोहन्ती प्रतीयते । तत्र चेतसो वैकल्यादिपरिभावनं मनआरम्भः, वाक्योच्चारणं वागारम्भः, राहोरिव दस्योश्चन्द्रकलामिव प्रेयसीमित्यादि बुध्द्यारम्भः, 402आच्छिन्दत इत्यादि शरीरारम्भः, भयादीनां च पञ्चानामपि यथाक्रमं राहोरिति, चन्द्रकलामिवाननचरीमिति, दैवात्समासाद्य मे इति, दस्योरस्य कृपाणपातविषयादिति, आच्छिन्दतः प्रेयसीमित्यालम्बनविभावास्तत्स्वरूपपरिभावनान्युद्दीपनविभावाः, विकलम्, 575 द्रुतम्, विक्षोभितम्, 403ज्वलितम्, विकसितं चेत404 इत्यनुभावाः, आतङ्ककरुणाविस्मयक्रोधमुदनुरूपाश्च कम्पाश्रुस्तम्भवैवर्ण्यरोमाञ्चादयः सात्त्विकाः, मोहविषादवित405र्कोग्रताधृत्यादयो व्यभिचारिणश्चानुमीयमाना निष्पत्तिहेतवो भवन्ति । सोऽयं तुल्यकालबलोत्पत्तिकारणानां भयादिनिष्पत्तीनां रतौ संसर्गः संकर इत्युच्यते ॥

  1. ‘तदवस्थावलोकनादिभिः’ ग घ
  2. ‘शारीरानुभावैः’ घ
  3. ‘आच्छिद्यत’ घ
  4. ‘चलितम्’ क
  5. ‘विकसितं च त’ घ, ‘विकसितमित्यनुभावाः’ क
  6. ‘विषादोदकोंग्रता’ क , ‘विषादामर्षोग्रता’ ख