‘अविस्तृतमसंक्षिप्तम्’ इत्यनेन विस्तारभीरूणां कथारसविच्छेदशङ्किनां च चित्तमावर्ज्यते । ‘1706श्रव्यवृत्तम्’ इत्यनेन वृत्तान्तरैराश्वासकादि-743 परिसमाप्तिरिति परिश्रान्ताः श्रोतार अश्वास्यन्ते, स्रगादिसंनिवेशादिवत्संदर्भे चाश्वादयो विभाव्यन्ते । ‘पुरोपवने’ इत्यादिना च देशकालपात्रसंपदुपवर्णनादालम्बनोद्दीपनविभावाः कथ्यन्ते । उद्यानसलिलक्रीडाद्युपलक्षणेन कामिनीनां दिवाचेष्टाः, मधुपानरतोत्सव इत्यनेन च रात्रिचेष्टा उच्यन्ते । विप्रलम्भा इत्यनेन चत्वारोऽपि प्रथमानुरागादयः परामृश्यन्ते । ‘विवाह1707’ इत्युपलक्षणेन प्रथमानुरागो विवाहान्तः, मानः प्रेमान्तः, प्रवासः, संगमान्तः, करुणः, प्रत्युज्जीवनान्तः, 1708प्रबन्धे कर्तव्य इत्युपदिश्यते । ‘मन्त्रदूत’ इत्यादिपुरुषकारायत्त1709सिद्धि1710सूचनेनाद्यूनतादिनिरासान्नायकस्य सत्त्वोत्कर्षः प्रकाश्यते । ‘नावर्णनं नगर्यादेर्दोषाय’ इत्यादिना तु पुरुषार्थासत्त्वोपकारित्वेन1711 शैलर्तूद्यानचन्द्रोदयमधुपानरतोत्सवादीनां मन्त्रदूतप्रयोगाजिनायकाभ्युदपादीनां1712 च नियमेन प्रयोगः, शेषाणां तु प्रबन्धशरीरानुरोधेनेति प्रतिपाद्यते । ‘गुणतः’ प्रागुपन्यस्य नायकं तेन विद्विषाम् । निराकरणम्’ इत्यनेन गुणवता भाव्यं न गुणद्वेषिणेति ज्ञाप्यते । ‘वंशवीर्यश्रुतादीनि’ इत्यादिना पुनराभिजात्यौद्धत्यशौण्डीर्यवीर्यादय1713 एव शत्रोर्वर्णनीया न त्ववच्छेदहेतवो न्याय्याचरणबिनयादय इति प्रत्याय्यते । ‘धिनोति नः’ इति त्वयमेव पक्षः श्रेयानिति ग्रन्थकारेण स्वाभिप्रायः प्रकाश्यते ॥

  1. ‘श्रव्यान्तैरित्यनेन’ ख
  2. ‘विवाहा’ क ख
  3. ‘प्रबन्धः’ ख
  4. ‘पुरुषाकारायत्त’ क
  5. ‘सूचनेन द्यूततादिनिरासात्’ ख
  6. ‘पुरुषार्थासन्नोपकारकारित्वेन’ क, ‘पुरुषार्थासन्नोपकारित्वेन’ ख
  7. ‘मन्त्रदूतप्रयोगाद्यनायकाभ्युदयादीनां च’ क, ‘मन्त्रदूतप्रयोगातिनायकाभ्युदयादीनां च’ ख
  8. ‘शौटीर्यवीर्यादयः’ क ख