अत्र यद्यपि पल्लीनामालम्बनत्वम्, 436तद्विशेषणयोरुद्दीपनत्वम्, मन्त्रजपादेरनुभावत्वम्, तालुशोषादीनां व्यभिचारित्वमिति विभावानुभावव्यभिचारिसंयोगोऽस्ति, तथापि मन्त्रजपेष्टदेवतानुध्यानयोर्लङ्घनोपायपरत्वान्न भयरूपेण 437रसस्य निष्पत्तिः । अध्वन्यानां हि तन्निष्पत्तावल्पसत्त्वतया स्तम्भमोहमूर्च्छामरणादिभिरुपायप्रयोगो न घटते ॥

  1. ‘न तदिशेषणयोः’ ख
  2. ‘रसनिष्पत्तिः’ क