590
अत्र सीतासमागमविषये रामस्य दृष्टावदानसुग्रीवसख्यादेरुपायस्याभावाद्विषादः प्रकृष्यते ॥
सत्त्वत्यागादनुत्कर्षो वाक्यादेर्दैन्यमुच्यते ॥ १५६ ॥
तद्रूपेण रसस्यानुबन्धो यथा—
‘अस्मान्साधु विचिन्त्य संयमधनानुच्चैः कुलं चात्मन-
स्त्वय्यस्याः कथमप्यबान्धवकृतां भावप्रवृत्तिं च ताम् ।
सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया
भाग्याधीनमतः परं न खलु तद्वाच्यं वधूबन्धुभिः ॥ ५१ ॥’
अत्र स्नेहप्रभवं पादत्रयोक्तमर्थितादैन्यं तुरींयपादोपक्षिप्तयाच्ञादैन्यान्तरेणानुबध्यते ॥
विदुर्वाग्दण्डपारुष्यमुग्रतामपकारिषु ।
तद्रूपेण रसस्य प्रकर्षो यथा—
‘प्रणयिसखीसलीलपरिहासरसाधिगतै-
र्ललितशिरीषपुष्पहननैरपि ताम्यति यत् ।
वपुषि वधाय तत्र तव शस्त्रमुपक्षिपतः
पततु शिरस्यकाण्डयमदण्ड इवैष भुजः ॥ ५२ ॥’
अत्र माधवस्य प्रकृष्टापकारिण्यघोरघण्टे विषये प्रकृष्टमेव वाक्पारुष्यं दण्डपारुष्यं च जायते ॥
त्रासश्चित्तचमत्कार आकस्मिकभयादिभिः ॥ १५७ ॥
तद्रूपेण रसस्य जन्म यथा—
‘परिस्फुरन्मीनविघट्टितो रवः सुराङ्गनास्रासविलोलदृष्टयः ।
उपाययुः कम्पितपाणिपल्लवाः सखीजनस्यापि विलोकनीयताम् ५३’