594
अत्र रतिसुखानुभवाज्जिगमिषोरप्यगच्छत आलस्यं निष्पद्यते ॥
निद्रा व्यापारवैमुख्यमिन्द्रियाणां श्रमादिभिः ।
तद्रूपेण 519रसस्यानुबन्धो यथा—
[निद्राल522सपरिघूर्णनशीलतिर्यग्वलदर्धतारकालोकाः ।
कामस्यापि दुर्विषहा दृष्टिनिपाताः शशिमुख्याः ॥]
निद्रादिजनितं सुप्तमिन्द्रियादिनिमीलनम् ॥ १६२ ॥
तद्रूपेण 525रसप्रकर्षो यथा—
[अवस्वपिति दत्तप्रतिपक्षवेदनं प्रशिथिलैरङ्गैः ।
निर्वर्तितसुरतरसानुबन्धसुखनिर्भरं स्नुषा ॥]
अत्र निर्भरपदेनैव प्रकर्षः प्रतिपाद्यते ॥
निद्रापगमहेतुभ्यः प्रबोधश्चेतनागमः ।
तद्रूपेण रसस्यानुबन्धो यथा—
‘प्रत्यग्रोन्मेषजिह्मा क्षणमनभिमुखी रत्नदींपप्रभाणामात्मव्यापारगुर्वी
जनितजललवाजृम्भणैः साङ्गभङ्गैः ।