अत्र स्थायिनो विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिरिति रतिरेव शृङ्गाररूपेण निष्पद्यते । अत्रावन्त्या वासवदत्ताया आलम्बनविभावभूतायाः सकाशादुत्पन्नो वत्सेश्वरस्य रतिस्थायिभावः, तस्याः पुनर्जीवनादिभिरुद्दीपनविभावैरुद्दीप्यमानो मृतेत्यादिना वागारम्भानुभावेनानुमीयमानैर्हर्षधृतिप्रभृतिभिः सुखात्मकैर्व्यभिचारिभिः संसृज्यमानः करुणानन्तरः संभोगः शृङ्गाराख्यां लभते ॥