अत्र शाखिनां प्रवालपुष्पफलशाखासंपन्नं निजं रूपं नन्दनशाखिनां पुनः प्रवालादिस्थाने532ष्वंशुकहारमधुमन्दिराणि तदेतदाश्चर्यम् । अतश्चैतेभ्य आलम्बनविभावेभ्यः कस्यचिद्देवभूयंगतस्य समुत्पन्नो विस्मयः533597 स्थायिभावस्तदीयावयवदर्शनादिभिरुद्दीपनविभावैरुद्दीप्यमानः समुत्पन्नेषु वागारम्भानुमेयेषु हर्षरोमोद्गमखेदगद्गदादिषु व्यभिचारिषु निष्पद्यमानोऽद्भुत इत्युच्यते ॥

  1. ‘प्रवालादिस्थानेंशुकहार’ क ख
  2. ‘विस्मयस्थायिभावः’ क ख