अत्र काचित् सखीं पूर्वं भर्तरि 541गृहीतमानां तेनैव नख542पदाङ्कितस्तनीमालम्बनविभावभूतामुपलभमानायाः कस्याश्चित्सख्या उत्पन्नो हासः स्थायिभावस्तदीयमानपरिग्रहस्मरणादिभिरुद्दीपनविभावैरुद्दीप्यमानः समुत्पन्नेषु वागारम्भानुमितेषु शङ्कावहित्थगद्गदादिव्यभिचारिषु 543निष्पद्यमानो हास्यशब्देनाभिधीयते ॥

  1. ‘प्रगृहीतमानां’ क ख
  2. ‘पदाङ्कितस्तनाम्’ ख
  3. ‘निष्पाद्यमानो’ क