102 दनुत्थानं दोषाभावत्वद्वारं, ततश्च मुख्य एव स्थाने जुगुप्सादायित्वं पूर्वाचार्यश्लोकेनैव व्याचष्टे—अत्रेत्यादि । गुणग्रस्तत्वमभिप्रेत्यातिशयसंपत्तौ प्रकृतौचित्यात्कपोलस्यैव प्रतिभासस्तदिदमुक्तम्—रागातिशयहेतुभूतयोरिति । तथा च जगन्नयनानन्दभूतस्य निःशेषिताशेषतमसश्चन्द्रमसो यदिदमभिप्रेतकामिनीकपोललावण्यबिन्दुमात्रतया भानं तदुचितमेवेति ॥
प्राच्यानामेव वासनामभिसंधाय स्मृतिहेतुमुदाहरति—
घृणावत्स्मृतिहेतुर्यथा—
अत्र विपूयपलाशब्रह्मवर्चसपोगण्डशब्दानां घृणावत्स्मृतिहेतुत्वेऽप्यन्यत्र38 लक्षितत्वाददोषत्वम् ॥
यथेति । आषाढो दण्ड; । ब्रह्मवर्चसिन इति । ‘ब्रह्महस्तिभ्यां वर्चसः’ इति समासान्तस्ततो मत्वर्थीय इनिः । पोगण्डो बालः ॥
एवमन्यप्रकारमपि संख्यानादिकं स्वयमुन्नेयमित्याह—
एवम39न्यदपि द्रष्टव्यम् । अत्र च—
तद्यथा—
अत्राश्रयस्य बीभत्सरसो चितत्वाददोषत्वम्41 ॥