अत्रापन्न: शत्रुरभियातव्य इति नीतिः, तच्च मानिनो ह्रिये भवती106तिविरुद्धमपि उद्धतपुरुषभाषितत्वान्न दुष्यतीति गुणत्वम् ।
अर्थशास्त्रेति । उद्धतपुरुषभाषितत्वादिति । पूर्वपक्षतया सिद्धान्तोपोद्धातत्वादित्यर्थः ॥
कामशास्त्रविरुद्धस्य यथा—
अत्र त्रासतो लयवैषम्येण गेयस्य रागहेतुत्वेऽपि कामिनीमुखोद्गीर्णत्वाद्रागविवर्धनत्वेन गुणत्वम् ॥
कामशास्त्रेति । लयवैषम्यादिति गीतस्य कलाप्रकथनात्तस्य च विषमलयस्यारञ्जकत्वात्कथं रागवर्धनमिति दूषणं दोलागतागतत्रस्तकामिनीगीतप्रभावोक्तेश्चमत्कारित्वात्तिरोधीयत इति गुणभावं च नीयते । भावान्तरालवर्ती कामो लयः ॥
ननु गुणैरेव शब्दार्थयोः सनाथीकरणे किमलंकारविवेचनप्रयासेनेत्यत आह—
युवतेरिति । अङ्गेत्याक्षेपसंबोधने । अलंकारसाहित्यबुद्धिसंगतिः प्रणयः ॥
विकल्पो विशेषस्तर्हि किमुत्तरसिद्धौ पूर्वेणेति न्यायेन त्यज्यन्तां गुणा इत्यत आह—
यदि भवतीति । विवृतमेतत् ॥
- ‘तोऽति’ मूलपुस्तकपाठः↩