नात्युत्तमभूमिकास्थोत्तमपात्रप्रयोज्या संस्कृतपैशाची साधारणी यथा—
एवं संस्कृतापभ्रंशादिसाधारण्यः प्राकृतादिभाषान्तरसाधारण्यश्च द्रष्टव्याः ॥
नात्युत्तमेति । अनङ्गस्येयमानङ्गी ॥
वक्तृविषयौचित्यादिप्रयोज्या मिश्रा यथा—
एवं भाषान्तराणामपि मिश्रीभावो द्रष्टव्यः ॥
वक्तृविषयेति । यदोत्तमादिषु नानावक्तृभिरेका काव्यसमस्या क्रियते, भिन्नभाषोचितवर्णनीयविषयं वा काव्यमेकमुपक्रम्यते, यदा वा शक्तिनिरूपणाय कवेरेव नानाभाषामयं काव्यमारब्धं स्यात्, तदा कथं नालंकारपदवीमध्यास्ते । अत आह—मिश्रेति । तमल्लिअन्ती तमालीयमाना ॥
दुर्विदग्धादिपात्रप्रयोज्या संकीर्णा यथा—
सोऽयं संस्कृतमहाराष्ट्रापभ्रंशयोगस्तिलतण्डुलवत्संकीर्णा जातिः । एवं प्राकृतापभ्रंशसंकरोऽपि द्रष्टव्यः ॥
दुर्विदग्धादीति । नागरकभावमवाप्तस्तद्भूमिकामवलम्बमानो दुर्विदग्धः । आदिपदात्पूर्वोक्ताः समस्यादयः । अकटमाश्चर्यम् । गुमटी मनोज्ञा । आस्फालितखङ्गस्येव स्फुरणे लवइ इति महाराष्ट्रदेशी । तथा च प्रयोगः—‘लवइ अ