अनुस्वारपुरोवर्तीति । अनुस्वारस्वरूपतदादेशावनुस्वारपदेन गृह्येते । तेन शमितहासेत्यादावनुस्वाराभावेऽपि न लक्षणमुदाहरणम् ॥
निष्ठुरा यथा—
सैषा प्रायः संयोगभूयस्त्वेनोत्पद्यते ॥
स्वाङ्गेति । दिवि सीदन्तीति द्युषदो देवाः । सुषामादित्वात्षत्वम् । अत्रैकान्तरिताः संयोगाः संदर्भव्यापकाः प्रतीयन्ते । सोऽयमस्याः संयुज्यमानाविशेषेऽपि वृत्त्यन्तराद्विशेषो निष्ठुराद्वैपरीत्येन श्लेषोदाहरणं सुगमम् ॥
श्लथा यथा—
सेयं प्रायो व्यञ्जना नाम संयोगेन जन्यते ॥
करणिः सादृश्यम् ॥
कठोरा यथा—
सैषा प्रायः कण्ठ्यरेफादिसंयोगादुत्पद्यते ॥
सैषा प्रायः कण्ठ्येति । कण्ठ्यरेफयोः क्वचिदन्यस्याप्यादिपदोपात्तस्य संयोगोऽवसेयः ॥
कोमला यथा—
सेयं रेफणकाराद्यसंयुक्तकोमलवर्णविरचनया निष्पद्यते ॥