254 प्रासादौ नामद्विरुक्तिरतिव्यापिका तथाप्यर्थोपक्षेपोपनिपातिनी सह विवक्षिता । अर्थो द्विविधः—आभिधानिकः, उपाधिश्च । आद्यो गौणमुंख्यभेदेन द्विप्रकारः, द्वितीयोऽपि वीप्साभीक्ष्ण्यादिरनेकविधः । द्वरुक्तिरपि नाम शरीरसंपादिका नाम्नः सतश्चेति द्वयी बोद्धव्या । अत एव द्विरुक्तस्यैवाभिधाशक्तियोगात्स्वभावत इत्युक्तम् ॥

सा स्वभावतो यथा—

‘कुर्वन्तोऽमी कलकलं मारुतेन चलाचलाः ।
प्रातर्गुलुगुलायन्ते गजा इव घनाघनाः ॥ २२८ ॥’

अत्र कलकलमित्यादिषु स्वाभाविकि पुनरुक्तिरुपदिश्यते ॥

कुर्वन्त इति । चलाचलाश्चञ्चलाः । चलतेरच्रप्रत्ययेऽभ्यासस्याकि रूपम् । गुलु इत्यव्यक्तानुकरणस्य डाचि द्विर्वचने च गुलुगुलेति नामसिद्धिः । अत्र कलकलादिपदानामर्थवशायातद्विरुक्तिशरीराणां स्वभावत एव यथोक्तरूपव्यवस्थितिः ॥

गौण्या यथा—

‘अमृतममृतं चन्द्रश्चन्द्रस्तथाम्बुजमम्बुजं रतिरपि रतिः कामः कामो मधूनि मधून्यापि ।
इति न भजते वस्तु प्रायः परस्परसंकरं तदियमबला कान्तिं धत्ते कुतः सकलात्मिकाम् ॥ २२९ ॥’

अत्रामृतममृतमित्यादिष्वभेदेऽपि भेदोपचारेण विशेषणविशेष्यभाचः सामान्यविशेषभावाद्भवन्पुनरुक्तिवद्भासते ॥

अमृतमिति । अत्र द्वितीयान्तानाममृतादिपदानां द्विरुक्तिदोषेण तात्पर्यापर्यवसानादमृतादिगुणपरत्वे कल्पनीयेऽपि निकृष्टगुणपराणां सामानाधिकरण्यानुपपत्तेस्तत्तदसाधारणगुणोपबृंहितामृतादिनिष्ठानामाद्यपदोपात्तसामान्यापेक्षो विशेष्यभावश्च विशेषणत्वं च निर्वहति । न च पर्यायनिवेशेऽर्थान्तरसंक्रमितवाच्यता संभवतीति पूर्वाचार्याः । सेयं गौणार्थपरवशा नाम द्विरुक्तिः ॥

वीप्सा यथा—

‘शैले शैले न माणिक्यं मौक्तिकं न गजे गजे ।
देशे देशे न विद्वांसश्चन्दनं न वने वने ॥ २३० ॥’