तदर्थानुगतं यथा—
अत्र प्रातिलोम्येन स एव पदार्थः ॥
विदित इत्यादि । विदिते स्वर्वासिनामपि प्रसिद्धे निजिताः परेषामाजयो युद्धानि येन तादृश्यनीके समरे प्राप्तं गवि पराह्वानरूपायां वाचि विगदं हृदयज्वररहितं के नाम भटा योद्धारः । न केऽपि सन्तीत्यर्थः । तं कम् । यो योद्धा सन्कथमपि नतिं नम्रतां नैति न याति । अत्र तदर्थक एव प्रतिलोमश्लोकः । स यथा—‘नतिमेति न योद्धा यो रोद्धारो विगदं गवि । निजिताजिनितं यातङ्केनीके विदिते दिवि' ॥
तुरङ्गपदं यथा—
यथा—
बालेत्यादि । बाला षोडशवर्षदेशीया शोभनकृष्णकेशी कान्तिप्रदचूर्णकुन्तलशोभिता सस्वा आत्मसंपद्युक्ता सुतवती पुत्रयुक्ता उत्कृष्टाभिमानात्मकशृङ्गारवती अभिलषितस्वविवाहादिव्रताकाङ्क्षा अतस्तं भजस्वेति । हृदये इति शेषः ॥ न्यासमाह—क्रमादिति । ललितो मनोज्ञस्तीव्रः प्रवीणः स्व आत्मा यस्याः । रागेण प्रेम्णा तर्पयति या । शोभनदन्तयुक्ता । वर्धितावासा संपूर्णीकृतसकलस्थाना । कालो भृषाव्याहारस्तेन सह वर्तते या । तले लासका नर्तका यस्याः सा तथाभूता । अधःकृतसकलनर्तकलोकेत्यर्थः । एवंभूता सा बाला त्वयोपभुक्तेति वाक्यार्थः ॥