Adhikāra 73

वमनं रेचनं नस्यं निरूहं सानुवासनम् ॥
ज्ञेयं पञ्चविधं कर्म विधानं तस्य कथ्यते ॥ १ ॥
दोषाः कदाचित्कुप्यन्ति जिता लङ्नपाचनैः ॥
जिताः संशोधनैर्ये तु न तेषां पुनरुद्भवः ॥ २ ॥
542
कफजे वमनं शस्तं रेचनं पित्तजे गदे ॥
बस्तिर्वातगदे कार्यमामजे पाचनादिकम् ॥ ३ ॥
स्निग्धस्विन्नं नरं सम्यग्जानुमात्रासनस्थितम् ॥
कण्ठमेरण्डनालेन स्पृशन्तं वामयेद्भिषक् ॥ ४ ॥
कृष्णेन्द्रयवसिन्धूत्थराढकल्कयुतं पिबेत् ॥
यष्टीकषायं सक्षौद्रं तेन साधु वमत्यलम् ॥ ५ ॥
543
कृशरां राढसंसिद्धां तद्बीजैर्वा शृतं पयः ॥
पीत्वा राढकषायं वा सिन्धुकृष्णान्वितं वमेत् ॥ ६ ॥
तण्डुलसलिलनिपिष्टं यः पीत्वा वमति नरः पूर्वाह्णे ॥
फलिनीवल्कलमुष्णं हरति गरं सकफपित्तरुजम् ॥ ७ ॥
आटरूषं वचां निम्बं पटोलं फलिनीत्वचम् ॥
क्वाथयित्वा पिबेत्तोयं वान्तिकृन्मदनान्वितम् ॥ ८ ॥
क्वाथ्यद्रव्यस्य कुडवं श्रपयित्वा जलाढके ॥
चतुर्भागावशिष्टं तु वमनेष्ववचारयेत् ॥ ९ ॥
544
जीमूतकस्तथेक्ष्वाकुः कुटजः कृतवेधनः ॥
धामार्गवश्च संयोज्या वमने राढवत्पृथक् ॥ १० ॥
निम्बकषायोपेतं फलिनीगदमदनमधुकसिन्धूत्थैः ॥
मधुयुतमेतद्वमनं कफपरिपूर्णाशये शस्तम् ॥ ११ ॥
545
श्लेष्मलैर्विविधैरन्नैर्दोषानुत्क्लेश्य यत्नतः ॥
स्निग्धस्विन्नाय वमनं दत्तं सम्यक्प्रवर्तते ॥ १२ ॥
कफप्रसेकं हृदयाविशुद्धिं शीतज्वराध्मानमथाविपाकम् ॥
शिरोगुरुत्वं मधुरास्यतां च कण्डूं च दुर्वामितलिङ्गमाहुः ॥ १३ ॥
शून्यं शिरस्तीव्रमतीवकम्पं पार्श्वोरसोर्धूपनमेव चापि ॥
पित्तातियोगं च विसंज्ञतां च हृत्कण्ठपीडामपि चातिवान्ते ॥ १४ ॥
पित्ते कफस्यानु सुखं प्रवृत्ते शुद्धेषु हृत्कण्ठशिरःसु चापि ॥
लघौ च देहे कफसंस्रवे च स्थिते सुवान्तं पुरुषं व्यवस्येत् ॥ १५ ॥
546
ततोऽपराह्णे सुविशुद्धदेहमुष्णाभिरद्भिः परिषिक्तगात्रम् ॥
कुलत्थमुद्गाढकिजाङ्गलानां यूषै रसैर्वाऽप्युपभोजयेत्तम् ॥ १६ ॥
547
कफप्रसेकस्वरभेदनिद्रातन्द्रास्यदौर्गन्ध्यविषोपसर्गाः ॥
गुरुत्वकण्डूग्रहणीप्रदोषा न सन्ति जन्तोर्वमनात्कदाचित् ॥ १७ ॥
छिन्ने तरौ पुष्पफलप्ररोहा यथा विनाशं सहसा व्रजन्ति ॥
तथा हृते श्लेष्मणि च्छर्दनेन तज्जा विकारा विलयं व्रजन्ति ॥ १८ ॥
548
न वामयेत्तैमिरिकं न गुल्मिनं
न चापि पाण्डूदररोगपीडितम् ॥
स्थूलक्षतक्षीणकृशातिवृद्धा-
नर्शोर्दिताक्षेपकपीडितांश्च ॥ १९ ॥
रूक्षे प्रमेहे तरुणे च गर्भे गच्छत्यथोर्ध्वं रुधिरे च तीव्रे ॥
दुष्टे च कोष्ठे कृमिभिर्मनुष्यं न वामयेद्वर्चसि वाऽतिवृद्धे ॥ २० ॥
एतेऽप्यजीर्णव्यथिता वाम्या ये च विषातुराः ॥
अतीव चोल्बणकफास्ते च स्युर्मधुकाम्बुना ॥ २१ ॥
अवाम्यवमनाद्रोगाः कृच्छ्रतां यान्ति देहिनः ॥
असाध्यतां वा गच्छन्ति नैते वाम्यास्त्वतः स्मृताः ॥ २२ ॥
549
अतिवान्तं घृताभ्यक्तमवगाह्य हिमे जले ॥
उपाचरेत्सिताक्षौद्रमिश्रैर्लेहैश्चिकित्सकः ॥ २३ ॥
वमनेऽतिप्रवृत्ते च हृद्यं कार्यं विरेचनम् ॥
विरेकेऽतिप्रवृत्ते तु वमनं योजयेद्भिषक् ॥ २४ ॥