Adhikāra 78

591
प्रतिमर्शोऽवपीडश्च नस्यं प्रधमनं तथा ॥
शिरोविरेचनं पञ्च नस्यभेदाः प्रकीर्तिताः ॥ १ ॥
592

No verses of the Siddhayoga on this page. The commentary Kusumāvali was not digitized.

593

No verses of the Siddhayoga on this page. The commentary Kusumāvali was not digitized.

594
नस्यस्य स्नैहिकस्याथ देयास्त्वष्टौ तु बिन्दवः ॥
प्रत्येकशो नस्त(नासि)कयोर्नृणामिति च निश्चयः ॥ २ ॥
शुक्तिश्च पाणिशुक्तिश्च मात्रास्तिस्रः प्रकीर्तिताः ॥
द्वात्रिंशद्बिन्दवश्चापि शुक्तिरित्यभिधीयते ॥
द्वे शुक्ती पाणिशुक्तिश्च ज्ञेयाऽत्र कुशलैर्नरैः ॥ ३ ॥
595
शृङ्गाटकमभिव्याप्य स्थापयेन्न गिलेद्द्रवम् ॥
स्वेदयेच्च कपोलादि ततः ष्ठीवेत्पुनः पुनः ॥ ४ ॥
भोजयेदनभिष्यन्दि जलमुष्णं च शीलयेत् ॥
रजोधूममनस्तापस्नानक्रोधादि वर्जयेत् ॥ ५ ॥
596
लाघवं शिरसो योगे सुखस्वप्नावबोधनम् ॥
विकारोपशमः शुद्धिरिन्द्रियाणां मनःसुखम् ॥ ६ ॥
लाघवं शिरसः शुद्धिः स्रोतसां व्याधिनिर्जयः ॥
चित्तेन्द्रियप्रसादश्च शिरसः शुद्धिलक्षणम् ॥ ७ ॥
कण्डूपदेहौ गुरुता स्रोतसां कफसंस्रवः ॥
हीनं विशुद्धे शिरसि लक्षणं परिकीर्तितम् ॥ ८ ॥
मस्तुलुङ्गागमो वातदुष्टिरिन्द्रियविभ्रमः ॥
शून्यता शिरसश्चापि मूर्ध्नि गाढं विरेचिते ॥ ९ ॥
हीनातिशुद्धे शिरसि कफवातघ्नमाचरेत् ॥
सम्यग्विशुद्धे शिरसि सर्पिर्नस्ये तु योजयेत् ॥ १० ॥
597
ईषदुच्छिङ्घनात्स्नेहो यावद्वक्त्रं प्रपद्यते ॥
नस्तो निषिक्तस्तं विद्यात्प्रतिमर्शं प्रमाणतः ॥ ११ ॥
598
उच्छिङ्घन्न पिबेच्चैनं निष्ठीवेन्मुखमागतम् ॥ १२ ॥
नस्येन रोगाः शाम्यन्ति नराणामूर्ध्वजत्रुजाः ॥
इन्द्रियाणां च वैमल्यं कुर्यादास्यं सुगन्धि च ॥ १३ ॥
हनुदन्तशिरोग्रीवात्रिकबाहूरसां बलम् ॥
वलीपलितखालित्यव्यङ्गानां चाप्यसंभवम् ॥ १४ ॥
तैलं कफे सवाते च केवले पवने वसाम् ॥
दद्यात्सर्पिः सदा पित्ते मज्जानं च समारुते ॥
चतुर्विधस्य स्नेहस्य विधिरेष प्रकीर्तितः ॥ १५ ॥
श्लेष्मस्थानाविरोधित्वात्तेषु तैलं विशिष्यते ॥ १६ ॥
विषाभिभूतसंन्यासमूर्छामोहापतन्त्रके ॥
मदापस्मारशोकार्तिचिन्ताक्रोधभयादिषु ॥ १७ ॥
मानसेषु च रोगेषु मूढव्याकुलचेतसाम् ॥
संज्ञाप्रबोधहेत्वर्थमवपीडं प्रदापयेत् ॥ १८ ॥
599
नस्ततो(नासया) विधमेच्चूर्णं त्रिमुच्चूटिमितं कटु ॥
षडङ्गुलद्विमुखया नाड्या विषादिमूर्छिते ॥ १९ ॥
शर्करेक्षुरसक्षीरघृतमांसरसान्पृथक् ॥
क्षीणानां नस्ततो(नासया) दद्याद्रक्तपित्तगदेषु च ॥ २० ॥