175
तृष्णायां पवनोत्थायां सगुडं दधि शस्यते ॥
रसाश्च बृंहणाः शीता गुडूच्या रस एव च ॥ १ ॥
पञ्चाङ्गिकाः पञ्च गणा य उक्तास्तेष्वम्बु सिद्धं प्रथमे गणे वा ॥
पिबेत्सुखोष्णं मनुजोऽल्पशश्च तृष्णोपरोधं न कदाऽपि कुर्यात् ॥
पित्तोत्थितां पित्तहरैर्विपक्वं निहन्ति तोयं पय एव वाऽपि ॥ २ ॥
काश्मर्यशर्करायुक्तं चन्दनोशीरपद्मकम् ॥
द्राक्षामधुकसंयुक्तं पित्ततर्षे जलं पिबेत् ॥ ३ ॥
ससारिवादौ तृणपञ्चमूलैस्तथोत्पलादौ मधुरे गणे वा ॥
कुर्यात्कषायांस्तु तथैव युक्तान्मधूकपुष्पादिषु चापरेषु ॥ ४ ॥
बिल्वाढकीधातकिपञ्चकोलदर्भेषु सिद्धं कफजां निहन्ति ॥
हितं भवेच्छर्दितमेव चात्र तप्तेन निम्बप्रसवोदकेन ॥ ५ ॥