Adhikāra 32

278
अश्मरीशान्तिविधयो य उक्ताः प्रसमीक्ष्य तान् ॥
यथादोषं प्रयुञ्जीत स्नेहादिमपि च क्रमम् ॥ १ ॥
अभ्यञ्जनस्नेहनिरूहबस्तिस्वेदोपनाहोत्तरबस्तिसेकान् ॥
स्थिरादिभिर्वातहरैश्च सिद्धान्दद्याद्रसांश्चानिलमूत्रकृच्छ्रे ॥ २ ॥
अमृतानागरं धात्रीवाजिगन्धात्रिकण्टकान् ॥
प्रपिबेद्वातरोगार्तः शूलवान्मूत्रकृच्छ्रवान् ॥ ३ ॥
सेकावगाहाः शिशिराः प्रदेहा
ग्रैष्मो विधिर्बस्तिपयोविरेकाः ॥
द्राक्षाविदारीक्षुरसैर्घृतैश्च
कृच्छ्रेषु पित्तप्रभवेषु कार्यः ॥ ४ ॥
कुशः काशः शरो दर्भ इक्षुश्चेति तृणोद्भवम् ॥
पित्तकृच्छ्रहरं पञ्चमूलं बस्तिविशोधनम् ॥
एतत्सिद्धं पयः पीतं मेढ्रगं हन्ति शोणितम् ॥ ५ ॥
शतावरीकाशकुशश्वदंष्ट्राविदारिशालीक्षुकसेरुकाणाम् ॥
क्वाथं सुशीतं मधुशर्कराक्तं पिबञ्जयेत्पैत्तिकमूत्रकृच्छ्रम् ॥ ६ ॥
279
हरीतकीगोक्षुरराजवृक्षपाषाणभिद्धन्वयवासकानाम् ॥
क्वाथं पिबेन्माक्षिकसंप्रयुक्तं कृच्छ्रे सदाहे सरुजे विबन्धे ॥ ७ ॥
गुडेनाऽऽमलकं वृष्यं श्रमघ्नं तर्पणं प्रियम् ॥
पित्तासृग्दाहशूलघ्नं मूत्रकृच्छ्रनिवारणम् ॥ ८ ॥
मूत्रेण सुरया वाऽपि कदलीस्वरसेन वा ॥
कफकृच्छ्रविनाशाय श्लक्ष्णं पिष्ट्वा त्रुटिं पिबेत् ॥ ९ ॥
तक्रेण पिष्टं शितिमारकस्य बीजं पिबेत्कृच्छ्रविनाशनाय ॥
पिबेत्तथा तण्डुलधावनेन प्रवालचूर्णं कफमूत्रकृच्छ्रे ॥ १० ॥
सर्वं त्रिदोषप्रभवे तु वायोः
स्थानानुपूर्व्या प्रसमीक्ष्य कार्यम् ॥
त्रिभ्योऽधिके प्राग्वमनं कफे स्या-
त्पित्ते विरेकः पवने तु बस्तिः ॥ ११ ॥
बृहतीधावनीपाठायष्टीमधुकलिङ्गकाः ॥
पाचनीयो बृहत्यादिः कृच्छ्रे दोषत्रयापहः ॥ १२ ॥
गुडेन मिश्रितं क्षीरं कदुष्णं कामतः पिबेत् ॥
मूत्रकृच्छ्रेषु सर्वेषु शर्करावातरोगनुत् ॥ १३ ॥
तथाऽभिघातजे कुर्यात्सद्यो व्रणचित्सितम् ॥
मूत्रकृच्छ्रे सदा चास्य कार्या वातहरी क्रिया ॥ १४ ॥
280
स्वेदचूर्णक्रियाभ्यङ्गबस्तयः स्युः पुरीषजे ॥ १५ ॥
क्वाथं गोक्षुरबीजस्य यवक्षारयुतं पिबेत् ॥
मूत्रकृच्छ्रं शकृज्जं च पीतः शीघ्रं निवारयेत् ॥ १६ ॥
शर्कराश्मरिकृच्छ्रे च शर्कराश्मरिनाशनम् ॥
लेह्यं शुक्रविबन्धोत्थे शिलाजतु समाक्षिकम् ॥ १७ ॥
वृष्यैर्बृंहितधातोश्च विधेयाः प्रमदोत्तमाः ॥
एलाहिङ्गुयुतं क्षीरं सर्पिर्मिश्रं पिबेन्नरः ॥
मूत्रदोषविशुद्ध्यर्थं शुक्रदोषहरं च तत् ॥ १८ ॥
त्रिकण्टकारग्वधदर्भकाश-
दुरालभापर्वतभेदपथ्याः ॥
निघ्नन्ति पीता मधुनाऽश्मरीं च
संप्राप्तमृत्योरपि मूत्रकृच्छ्रम् ॥ १९ ॥
एलाश्मभेदकशिलाजतुपिप्पलीनां
चूर्णानि तण्डुलजलैर्लुलितानि पीत्वा ॥
यद्वा गुडेन सहितान्यवलिह्य चैता-
न्यासन्नमृत्युरपि जीवति मूत्रकृच्छ्री ॥ २० ॥
अयोरजः सूक्ष्मपिष्टं मधुना सह योजितम् ॥
मूत्रकृच्छ्रं निहन्त्याशु त्रिभिर्लेहैर्न संशयः ॥ २१ ॥
सितातुल्यो यवक्षारः सर्वकृच्छ्रविनाशनः ॥
निदिग्धिकारसो वाऽथ सक्षौद्रः कृच्छ्रनाशनः ॥ २२ ॥
281
शतावरीकाशकुशश्वदंष्ट्रा-
विदारिकेक्ष्वामलकेषु सिद्धम् ॥
सर्पिः पयो वा सितया विमिश्रं
कृच्छ्रेषु पित्तप्रभवेषु योज्यम् ॥ २३ ॥
त्रिकण्टकैरण्डकुशाद्यभीरुकर्कारुकेक्षुस्वरसेन सिद्धम् ॥
सर्पिर्गुडार्धांशयुतं प्रपेयं कृच्छ्राश्मरीमूत्रविघातदोषे ॥ २४ ॥