Adhikāra 42

336
लङ्घनालेपनस्वेदरेचनै रक्तमोक्षणैः ॥
प्रायः श्लेष्महरैरुष्णैः श्लीपदं समुपाचरेत् ॥ १ ॥
धत्तूरैरण्डनिर्गुण्डीवर्षाभूशिग्रुसर्षपैः ॥
प्रलेपः श्लीपदं हन्ति चिरोत्थमपि दारुणम् ॥ २ ॥
संपिष्टमारनालेन रूयिकामूलवल्कलम् ॥
प्रलेपाच्छ्लीपदं हन्ति बद्धमूलमपि स्थिरम् ॥ ३ ॥
पिण्डारकतरुसंभववन्दाकशिफा जयति सर्पिषा पीता ॥
श्लीपदमुग्रं नियतं बद्धा सूत्रेण जङ्घायाम् ॥ ४ ॥
हितश्चाऽऽलेपने नित्यं चित्रको देवदारु च ॥
सिद्धार्थशिग्रुकल्को वा सुखोष्णो मूत्रपेषितः ॥ ५ ॥
स्नेहस्वेदोपनाहांश्च श्लीपदेऽनिलजे भिषक् ॥
कृत्वा गुल्फोपरि शिरां विध्येच्च चतुरङ्गुले ॥ ६ ॥
गुल्फस्याधःशिरां विध्येच्छ्लीपदे पित्तसंभवे ॥
पित्तघ्नीं च क्रियां कुर्यात्पित्तार्बुदविसर्पवत् ॥ ७ ॥
मञ्जिष्ठां मधुकं रास्नां सहिंस्रां सपुनर्नवाम् ॥
पिष्ट्वाऽऽरनालैर्लेपोऽयं पित्तश्लीपदशान्तये ॥ ८ ॥
337
शिरां सुविदितां विध्येदङ्गुष्ठे श्लेष्मश्लीपदे ॥
मधुयुतानि चाभीक्ष्णं कषायाणि पिबेन्नरः ॥ ९ ॥
पिबेद्वाऽप्यभयाकल्कं मूत्रेणान्यतमेन तु ॥
पिबेदेवं गुडूचीं वा नागरं देवदारु वा ॥ १० ॥
पिबेत्सर्षपतैलेन श्लीपदानां निवृत्तये ॥
पूतीकरञ्जच्छदजं रसं वाऽपि यथाबलम् ॥ ११ ॥
अनेनैव विधानेन पुत्रजीवकजं रसम् ॥
प्रयुञ्जीत भिषक्प्राज्ञः कालसात्म्यविभागवित् ॥ १२ ॥
पलाशमूलस्वरसं पिबेद्वा तैलेन तुल्यं सितसर्षपाणाम् ॥
मूत्रेण पथ्यासुरदारुविश्वं सगुग्गुलुश्लीपदिभिर्निषेव्यम् ॥ १३ ॥
काञ्जिकेन पिबेच्चूर्णं वृद्धदारुकसंभवम् ॥
रजनीं गुडसंयुक्तां गोमूत्रेण पिबेन्नरः ॥
वर्षोत्थं श्लीपदं हन्ति दद्रुकुष्ठं विशेषतः ॥ १४ ॥
गन्धर्वतैलभृष्टां हरीतकीं गोजलेन यः पिबति ॥
श्लीपदबन्धनमुक्तो भवत्यसौ सप्तरात्रेण ॥ १५ ॥
धान्याम्लं तैलसंयुक्तं कफवातविनाशनम् ॥
दीपनं चाऽऽमदोषघ्नमेतच्छ्लीपदनाशनम् ॥ १६ ॥
338
त्रिकटुत्रिफला चव्यं दार्वीवरुणगोक्षुरम् ॥ १७ ॥
अलम्बुषां गुडूचीं च समभागानि चूर्णयेत् ॥
सर्वेषां चूर्णमाहृत्य वृद्धदारु च तत्समम् ॥ १८ ॥
काञ्जिकेन च तत्पेयमक्षमात्रं प्रमाणतः ॥
जीर्णे चापरिहारः स्याद्भोजनं सार्वकामिकम् ॥ १९ ॥
नाशयेच्छ्लीपदं स्थौल्यमामवातं च दारुणम् ॥
कुष्ठगुल्मारुचिहरं वातश्लेष्मरुजापहम् ॥ २० ॥
पिप्पलीत्रिफलादारुनागरं सपुनर्नवम् ॥
भागैर्द्विपलिकैरेषां तत्समं वृद्धदारुकम् ॥ २१ ॥
काञ्जिकेन पिबेच्चूर्णं कर्षमात्रं प्रमाणतः ॥
जीर्णे चापरिहारः स्याद्भोजनं सार्वकामिकम् ॥ २२ ॥
श्लीपदं वातरोगांश्च हन्यात्प्लीहानमेव च ॥
आग्निं च कुरुते घोरं भस्मकं च नियच्छति ॥ २३ ॥
कृष्णाचित्रकदन्तीनां कर्षमर्धपलं पलम् ॥
विंशतिश्च हरीतक्यो गुडस्य तु पलद्वयम् ॥
मधुना मोदकं खादेच्छ्लीपदं हन्ति दुस्तरम् ॥ २४ ॥
सुरसाग्रन्थिकव्योषविडङ्गानि वचा शठी ॥ २५ ॥
पाठैलाहपुषाश्यामाचव्यदारुवरापुरैः ॥
सपञ्चलवणक्षारैः कार्षिकैर्विपचेद्धविः ॥ २६ ॥
प्रस्थं तदंशैर्धान्याम्लदशमूलाम्बुमस्तुभिः ॥
अक्षं पिबेन्नरो मासं श्लीपदं हन्ति दुस्तरम् ॥ २७ ॥
339
वृद्ध्यर्शोग्रहणीरोगगलगण्डार्बुदापचीः ॥
घृतं सौरेश्वरं नाम श्लीपदं कृमिरोगनुत् ॥ २८ ॥
विडङ्गमरिचार्केषु नागरे चित्रके तथा ॥
भद्रदार्वेलुकाख्ये च सर्वेषु लवणेषु च ॥
तैलं पक्वं पिबेद्वाऽपि श्लीपदानां निवृत्तये ॥ २९ ॥