सनत्कुमार उवाच |

सुकेशस्तु ततो व्यास पितुः श्रुत्वा सुदीनवान् |
दीनवच्चिन्तयामास जन्तूनां तां गतिं तदा || १ ||
चिन्तयाभिपरीतात्मा दुःखेन च समाहतः |
जन्तूनां मोक्षणोपायं मूढचेता न जज्ञिवान् || २ ||
चिन्तापन्नः स तु यदा पितॄंस्तान्नाभ्यभाषत |
तदा ते पितरः सर्वे सुकेशमिदमूचिरे || ३ ||

पितर ऊचुः |

अतीव किं चिन्तयसि कुतश्चिन्ता तवानघ |
ईश्वरस्य सतः पुत्र नेदं तव विधीयते || ४ ||

सुकेश उवाच |

जन्तूनां कर्मजं क्लेशं श्रुत्वा युष्माभिरीरितम् |
चिन्तयामि कथं तेषां मोक्षोपायो भवेदिति || ५ ||

पितर ऊचुः |

अनादृत्य क्षयं पुत्र मोक्षस्तेषां न विद्यते |
कर्मणः स्वकृतस्येह स च भोगात्क्षयो मतः || ६ ||
भोगश्च नरके ऽवश्यं जन्तूनां स विधीयते |
न च ते नरकाः शक्या हर्तुं कर्मक्षयं विना || ७ ||
अशक्याः खलु ये ह्यर्था न तान्प्राज्ञः समारभेत् |
अर्णवस्य प्रतरणं यथा तन्मृत्युमर्छति || ८ ||

सनत्कुमार उवाच |

एवमुक्तः स तेजस्वी पितॄंस्तान्हृच्छयावृतः |
उवाच प्रणतो भूत्वा मावमंस्थाः सुतं हि माम् || ९ ||
का शक्तिर्मम ताञ्जन्तून्बलात्तारयितुं सुताः |
महादेवप्रसादात्तांस्तारयिष्यामि दुर्गतिम् || १० ||
यूयं यथैव तीर्णाः स्थ नरकस्था विचेतसः |
तथा ते जन्तवः सर्वे तरिष्यन्ति न संशयः || ११ ||

सनत्कुमार उवाच |

ततस्तान्स तदामन्त्र्य महात्मा गणनायकः |
संप्रविश्य समुद्राम्भो अन्तर्जलगतस्तदा |
जजाप रुद्राञ्छुद्धात्मा निश्चलः सुसमाहितः || १२ ||
जपतस्तस्य योगेन युक्तस्य च महात्मनः |
त्रैलोक्यमखिलं सर्वं तपसाभूत्प्रतापितम् || १३ ||
ततो देवास्तदा सर्वे पितामहमथाब्रुवन् |
किमिदं भगवन्सर्वे तप्याम विवशा वयम् || १४ ||
कस्येदं तपसो वीर्यं कस्य योगो ऽयमीदृशः |
क एष सुरशार्दूल तपस्तप्यति दारुणम् || १५ ||
यावदेवं न दहति यावच्चैव न कुप्यते |
तावत्सर्वानभिप्रायांस्तस्य संपादय प्रभो || १६ ||
स एवमुक्तो देवैस्तैर्भगवान्देवसत्तमः |
उवाच मा भयं वो ऽस्तु नायं कश्चिदसंमतः || १७ ||
एष रुद्रस्य देवस्य महात्मा गणनायकः |
समुद्रान्तर्जलासीनो रुद्राञ्जपति योगवान् || १८ ||
न चास्य दुष्टाभिप्रायो लोकान्प्रति महाबलाः |
नारकानेष नरकादुद्धर्तुमभिमन्यते || १९ ||
ते यूयं यदि मन्यध्वं गत्वा रुद्रं प्रणम्य च |
अर्थयामो ऽस्य देवस्य क्रियतामीप्सितो वरः || २० ||
एवमस्त्विति ते सर्वे ब्रह्मणा सह संगताः |
गता मन्दरमव्यग्रा नन्दिना संप्रवेशिताः |
ते दृष्ट्वा देवमीशानं स्तुत्वेदमब्रुवन्विभुम् || २१ ||
सुकेशो भगवंस्तुभ्यं वल्लभो गणनायकः |
कारुण्यं प्राणिनां कृत्वा तपस्तप्यति दुश्चरम् |
तस्य कामं सकामं त्वं कुरुष्व भुवनेश्वर || २२ ||
तेषां विज्ञप्तिमाकर्ण्य देवदेवस्तदा भवः |
ब्रह्माद्यैः सहितो ऽभ्यागात्सुकेशस्य तदान्तिकम् || २३ ||
समुद्रस्तत्र ये चान्ये मुनयः संशितव्रताः |
अर्घ्यमादाय शतशो नेमुः शंकरमागतम् || २४ ||
तमसौ गणपश्रेष्ठं देवदेव इदं वचः |
प्रोवाच मधुरं व्यास मनःश्रोत्रसुखावहम् || २५ ||
वत्सोत्तिष्ठ सुकेश त्वं प्रार्थयस्व यथेप्सितम् |
सर्वं तत्संप्रदास्यामि त्वं हि नन्दिसमो मम || २६ ||
ततः सुकेश उत्थाय स्तुत्वा तं वृषभध्वजम् |
प्रणिपत्य पुनर्वव्रे कामं पूर्वसमीहितम् || २७ ||
नरकेषु नरा देव यात्यन्ते पापकर्मिणः |
तेषामुपरि चेतो मे दुःखेनार्दितमीश्वर || २८ ||
ते यथा प्रतिमुच्यन्ते सर्व एव जगत्पते |
तथा कुरु ममाद्यैव वर एषो मयार्थितः || २९ ||
ये चाधुना नरा देव यात्यन्ते नरकेषु वै |
तेषां तु प्रतिमोक्षार्थं याचयेयं सुरेश्वर || ३० ||
ततस्तदर्थितं देवः प्रयच्छन्निदमब्रवीत् |
एवं भवतु ते वत्स मुक्ता नारकिणो नराः || ३१ ||
अनयापि च भक्त्या त्वं कारुण्येन च वल्लभः |
सुतरां भव निर्व्यग्रः परमैश्वर्यसंयुतः || ३२ ||
ततस्ते नारकाः सर्वे विमानानि समाश्रिताः |
देवदेवं ततो ऽभ्येत्य सुकेशं च प्रणेमिरे || ३३ ||
तमुवाच पुनर्देवः सुकेशं गणनायकम् |
यो हि तारयते जन्तूनापदं किंचिदेव हि |
तस्य धर्मो ऽमितो भूत्वा संसारं न प्रयच्छति || ३४ ||
मनसापि हि यः प्राणी क्लेशाज्जन्तून्सदेच्छति |
विमोक्तुं सो ऽपि धर्मात्मा सर्वदुःखैः प्रमुच्यते || ३५ ||
यश्चोपार्ज्य स्वयं धर्मं जन्तुभ्यः संप्रयच्छति |
सुखार्थं सो ऽपि सर्वेभ्यो दुःखेभ्यः संप्रमुच्यते || ३६ ||
स त्वं परेण योगेन ऐश्वर्येण च संयुतः |
जन्तूनां तारणे युक्तस्त्वयान्यः कः समो भुवि || ३७ ||

सुकेश उवाच |

भगवंस्त्वत्प्रसादान्मे सर्वमेतद्भविष्यति |
शक्तिर्मम कुतो देव त्वयैवैतत्कृतं विभो || ३८ ||
न चान्यदस्ति कर्तव्यं कृत्यं यन्मे मनोगतम् |
तवास्मि किंकरो दासो नाश्चर्यं यन्ममेदृशम् || ३९ ||

सनत्कुमार उवाच |

ततः स भगवान्देवो विसृज्य गणनायकम् |
अभ्यगान्मन्दरं व्यास वृतः सर्वामरैस्तदा || ४० ||
देवा अपि विमानस्थान्नारकान्वीक्ष्य सर्वशः |
शान्तं च जगतो दुःखं दृष्ट्वा जग्मुर्यथागतम् || ४१ ||
य इमं नारकोत्तारं शृणुयाद्वा पठेत वा |
स दुःखं समनुप्राप्य नावसीदति कर्हिचित् || ४२ ||
एतद्योगविधानसर्वसमयं श्रुत्वा नरो नित्यशः
पापात्मापि सुनिर्घृणं प्रतिभयं नाभ्येति पापाश्रयम् |
किं न्वेतं य इहाभ्युपेत्य सततं शौचान्वितः श्रावयेद्
देवब्राह्मणवैद्यसंसदि दृढं भक्तः सदा शंकरम् || ४३ ||
स्कन्दपुराण एकपञ्चाशो ऽध्यायः ||