सनत्कुमार उवाच |

ततस्तेन विमानेन सर्वसृक्स चतुर्मुखः |
जगाम मन्दरं धीमान्विचित्रोपलकन्दरम् || १ ||
स तमासाद्य विस्तीर्णमनौपम्यमतिप्रभम् |
दूराद्दृष्टिसुखं दृष्ट्वा सभास्थानिदमब्रवीत् || २ ||
इदं रुद्रगृहं शुभ्रमदृश्यं सुकृतामपि |
देवानामपि पश्यध्वं भास्कराकारवर्चसम् || ३ ||
इदं प्रविश्य देवानां यज्ञश्रीर्नापसर्पति |
जयश्च नित्यं युद्धेषु धर्मश्च सुमहानपि || ४ ||
एतत्सृष्टं स्वयं तेन मनसानुपमद्युति |
न ह्यस्य सदृशं किंचिदण्डे ऽस्मिन्विद्यते गृहम् || ५ ||
इदं प्रविश्य धर्मात्मा दुःखं भूयो न विन्दते |
न चापि जन्म प्राप्नोति नित्यमैश्वर्यगो हि सः || ६ ||
अनिर्देश्यमिदं योगाद्योगिनामपि नित्यशः |
अन्यस्तु कुत एवेदं वर्णयीत महानपि || ७ ||
एतदस्मद्विमानस्य वायुनाभ्याहतं रुषा |
वर्धते गिरिणा सार्धं विन्ध्यस्य शिखरं यथा || ८ ||
एतदस्मद्विमानस्य मार्गमावृत्य विष्ठितम् |
ऊर्ध्वं तिर्यगधस्ताच्च देवदेवस्य तेजसा || ९ ||
एतदन्धं तमः कृत्वा मेघो ऽसौ जीवनः स्वयम् |
वज्रोद्यतकरः स्रग्मी प्रत्युद्यात्यभिनादयन् || १० ||

सनत्कुमार उवाच |

ततः स भगवान्देवो ब्रह्मा लोकपितामहः |
विष्टभ्य तं विमानाग्र्यमवतस्थे कृताञ्जलिः || ११ ||
तुष्टाव च तदा देवं शर्वमुग्रं कपर्दिनम् |
ते चैव ऋषयः सर्वे विमानस्थाः सुसंयताः || १२ ||
ततः स मेघः स्वं स्थानमगमद्वृष्टिसर्जनः |
दिशश्च विमलाः सर्वाः प्रकाशश्चाभवद्भृशम् || १३ ||
तं जपन्तं विदित्वा च भगवान्गोवृषध्वजः |
नन्दिनं द्वारदेशस्थमिदमाह सुरेश्वरः || १४ ||
एष ब्रह्मा विमानेन मामिह द्रष्टुमागतः |
ब्रूहि येनागतो ऽसीह कार्येण विदितो ऽसि मे |
कुरु तद्गच्छ शीघ्रं त्वं कालस्तस्यायमागतः || १५ ||

सनत्कुमार उवाच |

स एवमुक्तो रुद्रेण नन्दी प्रमथनायकः |
द्वाःस्थ-म्-एव विमानस्थं ब्रह्माणमिदमब्रवीत् || १६ ||

नन्द्युवाच |

यूयं ज्ञाता भगवता येन कार्येण चागताः |
कुरुध्वं किल तच्छीघ्रं कालो ऽयं तस्य वर्तते || १७ ||
ततः स कृत्वा मनसा नमस्कारं हि शम्भवे |
प्रदक्षिणमुपावृत्य मन्दरं प्रजगाम ह || १८ ||
स मन्दरगिरिं सर्वं परिहृत्य महामनाः |
शाकद्वीपस्य मध्येन जम्बूद्वीपमथागमत् || १९ ||
स दृश्यमानो देवैश्च मुनिभिश्च यतव्रतैः |
हिमवन्तं गिरिश्रेष्ठमुपागम्येदमब्रवीत् || २० ||
एतद्धिमवतः शृङ्गमुच्छ्रितं कान्तिमत्स्थितम् |
युगान्तादित्यसंकाशं दूरात्समभिलक्ष्यते || २१ ||
अत्र सा जगतो धात्री धात्री पुत्रमिवौरसम् |
पालयन्ती जगत्सर्वं तपस्तप्यति शैलजा || २२ ||
अहो नु शिखरं पुण्यं भाग्यवच्चापि सर्वथा |
यदेनं गिरिपुत्र्यर्थे वरैर्योक्ष्यति कामहा || २३ ||
पश्यध्वं तपसो वीर्यं देव्याः सुचरितस्य वै |
यदेतच्छिखरं दृष्ट्वा न पश्याम पुनर्यमम् || २४ ||
स एवं कथयन्नेव विमानेन चतुर्मुखः |
ऋषिभिः सहितः सर्वैः शिखरद्वारमागतः || २५ ||
तत्रैनं रुद्रसचिवा आयुधोद्यतपाणयः |
भर्त्सयन्तो ऽभ्यवर्तन्त तिष्ठ तिष्ठेतिवादिनः || २६ ||
तान्ब्रह्मा श्लक्ष्णया वाचा सान्त्वपूर्वमुवाच ह |
प्रशंसमानस्तान्सर्वान्प्राञ्जलिर्युक्तमानसः || २७ ||

ब्रह्मोवाच |

यूयं सर्वे महात्मान ऐश्वर्येण समन्विताः |
अक्षया ह्यमराश्चैव तथाप्रतिहताश्च ह || २८ ||
महायोगबलोपेता अजय्या युधि केनचित् |
को युष्मानभिवर्तेत शक्रो ऽपि प्रवरेश्वराः || २९ ||
देवदेवाज्ञया सो ऽहमायातो मन्दरादिह |
देव्या वरप्रदानार्थमनुज्ञा क्रियतां मम || ३० ||

गणेश्वरा ऊचुः |

देव्या दाता स्वयं देवो वरानिष्टान्महामनाः |
तानेव देवी त्वन्यस्मान्मनसापि न चिन्तयेत् || ३१ ||
शक्तो देवो ऽनुग्रहीतुं जगत्सर्वं महेश्वरः |
त्वामप्यसौ ऽनुगृह्णाति किमु देवीं जगत्पतिः || ३२ ||

ब्रह्मोवाच |

अशक्तो न महादेवो वरं दातुं महामनाः |
य एवं चिन्तयेद्देवं न भवेत्स कथंचन || ३३ ||
न देवी भगवत्पार्श्वादिच्छते किल पार्वती |
वरानिष्टांस्ततो देवो मामिह प्रेषयच्छिवः || ३४ ||
अथ तं युक्तमनसो युक्तं प्रत्यक्षमीश्वराः |
महेश्वरमपश्यन्त कृतानुज्ञं च लोकपम् || ३५ ||
नियुक्ताश्च पुनः सर्वे ब्रह्माणं लोककारणम् |
ऊचुर्गणेश्वराः सर्वे विदितार्था महामुने || ३६ ||
प्रेषितो देवदेवेन ज्ञातो ऽस्माभिः पितामह |
त्वं विशस्वाधुना देव पार्वत्या वरदित्सया || ३७ ||
अवतीर्य विमानात्तु ततः शीघ्रं पितामहः |
निलिल्ये शिखरे तस्मिन्नानाधातुविचित्रिते || ३८ ||
अथ सोपलधातुनिर्झरो गिरिराजो ऽतिमहाशिलोच्चयः |
विनिसृष्टदिवाकरामलः स गिरिर्दिव्य इवोदयाचलः || ३९ ||
इति स्कन्दपुराणे चतुष्पञ्चाशो ऽध्यायः ||