सनत्कुमार उवाच |

चत्वारस्ते तु शप्तारः खगाः स्वच्छन्दतः पुनः |
यायावरस्य विप्रस्य सुता जज्ञे महात्मनः || १ ||
तेषु जातेषु विप्रो ऽसावक्लेशेन महातपाः |
वृत्तिं समानयामास तेषां भाग्यपुरःसरः || २ ||
चीर्णवेदव्रतास्ते तु वेदान्साङ्गानधीत्य च |
योगमेवाभ्यसेवन्त तन्निष्ठास्तत्परायणाः || ३ ||
इतरे ऽपि त्रयो व्यास कर्मणा स्वेन चोदिताः |
प्रत्यपद्यन्त तज्जन्म यत्पुरा तैर्विचिन्तितम् || ४ ||
एको ऽणुहस्य पुत्रो ऽभूद्द्वितीयस्तत्पुरोधसः |
तृतीयः सचिवस्याथ त्रयस्ते जन्म तद्गताः || ५ ||
त्रयो ऽग्नय इवासंस्ते लोकास्त्रय इवाथवा |
अवर्धन्त महात्मानस्त्रयस्ते सागरा इव || ६ ||
तेषामवाप्तविद्यानां योग्यानां स्वे च कर्मणि |
पितरः स्वानि कर्माणि प्रददुर्हृष्टमानसाः || ७ ||
अणुहः प्रददौ राज्यं ब्रह्मदत्ताय पुष्कलम् |
कीर्तिमत्या च सहितस्ततो वनमगाच्च सः || ८ ||
पुरोधा धृतरातस्तु पुत्रं स्वे कर्मणि प्रभुः |
स्थापयित्वा जगामाथ पञ्चालं संशितव्रतः || ९ ||
सचिवो ऽपि सुधन्वा तु ब्रह्मधन्वानमच्युतम् |
पुत्रं स्वे कर्मणि स्थाप्य जगाम सह भार्यया || १० ||
गतेषु तेषु स्वांल् लोकान्ब्रह्मदत्तः प्रतापवान् |
पञ्चालब्रह्मधन्वाभ्यां सह राज्यं चकार ह || ११ ||
प्रशासतस्तथा राज्यं यजतो भुञ्जतश्च ह |
जग्मुः सुखेन बहुलाः समाः सुकृतिनस्तथा || १२ ||
अथ कालेन महता सभार्यः ससुहृज्जनः |
तस्थौ स वेश्मनि सुखं कुबेर इव पुष्पके || १३ ||
ततः सर्वरुतं ज्ञात्वा पिपीलं कामकारणात् |
पिपीलिकायाश्चाटूनि कुर्वाणं सो ऽनुपश्यत || १४ ||
स तु ज्ञात्वा विनिश्चिन्त्य कृमियोनावपीदृशम् |
विवृतं शब्दवच्चैव हासमुत्सृजतानघः || १५ ||
तत्तस्य हसितं दृष्ट्वा पत्नी नीलोत्पलेक्षणा |
चुकोप किमिदं मे ऽद्य विकृतं लक्षितं त्वया || १६ ||
तां स राजा समाविग्नः प्रियां प्राणैर्गरीयसीम् |
प्रसादयन्न चैवास्य प्रसीदत शुभानना || १७ ||
सा यदा बहु तथ्यं च उच्यमाना न तुष्यति |
तदा तस्याः प्रसादार्थे स विष्णुं सम्प्रसादयत् || १८ ||
देवं सालवनं गत्वा पञ्चालेन सहैव सः |
ब्रह्मधन्वपुरोवाहो रथेन महता महान् || १९ ||
तत्रासौ सप्तमे अह्नि विष्णुनाभिविसर्जितः |
जगाम नरशार्दूलः कम्पिल्यं स्वं पुरोत्तमम् || २० ||
एतस्मिन्नेव काले तु चत्वारो ब्राह्मणाः शुभाः |
योगेन महता युक्ता इदमूचुः परस्परम् || २१ ||
वयं कृतार्थाः किंकार्यमिह तिष्ठाम मानुषे |
गच्छाम ब्रह्मयोनिं स्वां मुच्यामो ऽस्मान्महाभयात् || २२ ||
अवसीदन्ति ते चैव त्रयो ऽस्माकं सहव्रताः |
अवबोधयाम तांश्चैव यथा नेयुः पराभवम् || २३ ||
ततस्ते पितरं सर्वे प्रणम्योचुर्द्विजातयः |
वयं योगेश्वरास्तात सिद्धा वै स्वेन कर्मणा || २४ ||
आपृच्छामो गमिष्यामः स्वां योनिं ब्रह्मनिर्मिताम् |
त्यक्त्वेमान्मानुषान्देहान्विसर्जय नमस्तव || २५ ||

पितोवाच |

पुत्रानिच्छन्ति पितरस्तारयिष्यन्ति नो भयात् |
भयं तच्चैहिकं पुत्राः परत्र च दुरासदम् || २६ ||
ते यूयमृणसंयुक्ता अमुक्त्वा स्वं निबन्धनम् |
कथं गच्छथ भद्रं वो नाधर्मं परिपश्यत || २७ ||

सुता ऊचुः |

वयं योगेश्वरास्तात लोकांस्तुभ्यमनामयान् |
प्रयच्छाम न संदेहो येषु गत्वा न शोचसि || २८ ||
अस्माभिस्त्वं कथं पुत्रैर्ब्रह्मत्वं नाप्नुयाः पितः |
इहापि लोके द्रव्यं ते विधास्यामस्तथा शृणु || २९ ||
इमं त्वं पत्रमादाय ब्रह्मदत्तस्य दर्शय |
स वाचयन्नेव नृपो वृत्तिं ते संविधास्यति || ३० ||

सनत्कुमार उवाच |

प्रभावज्ञस्ततस्तेषां पिता स मुनिपुंगवः |
मेने तद्वै तथा सर्वमनुमेने च तान्पुनः || ३१ ||
अथासनानि बद्ध्वा ते युक्त्वा जग्मुस्तपोधनाः |
ज्योतिर्भूतानपश्यच्च पिता तेषामतिद्युतिः || ३२ ||
स तु लेखं समादाय पुत्रान्स्वानभिचिन्तयन् |
कम्पिल्यमगमत्तूर्णं दिदृक्षुर्नृपसत्तमम् || ३३ ||
स च राजा सालवनादागतः प्राविशत्पुरम् |
ब्राह्मणो दूरतश्चास्य तं लेखं समदर्शयत् || ३४ ||
निमित्तानि च संलक्ष्य शुभानि स नराधिपः |
लेखमानयतेत्युक्त्वा धारयामास तं रथम् || ३५ ||
स पुरद्वारसंस्थस्तु रथेन महता तदा |
ब्रह्मधन्वधृतच्छत्रः पञ्चालावीजिताननः || ३६ ||
गृहीत्वा लेखमव्यग्र अवाचयत तं तदा |
श्लोकद्वयं चाप्यभवत्तस्मिंल् लेखे शुभप्रदम् || ३७ ||
ये ते गुरुकृताच्छापाद्गोवधेनावपीडिताः |
पितृभक्त्याहृतज्ञाना जाताः सर्वे शुभोदयाः || ३८ ||
सप्त व्याधा दशार्णेषु मृगाः कालञ्जरे गिरौ |
चक्रवाकाः सरिद्वीपे यूयं तेभ्यो ऽवसीदथ || ३९ ||

सनत्कुमार उवाच |

श्लोकद्वयं तथा श्रुत्वा त्रयस्ते विषपीतवत् |
मोहं तदानुसम्प्राप्य लब्धसंज्ञाविशन्पुरम् || ४० ||
ते प्रविश्य पुरं चैव वेश्म चैवाप्यतन्द्रिताः |
इति चेति च संचिन्त्य वनाय दधिरे मनः || ४१ ||
सापि पत्नी महाभागा अभिगम्य नराधिपम् |
इदमाह मुदा युक्ता राजानं ससुहृज्जनम् || ४२ ||
भवान्योगेश्वरो भूत्वा सक्तो भोगेषु सर्वशः |
प्रबोधार्थं ततो ऽहं ते क्रोधमाहारयं तदा || ४३ ||
जानामि त्वां रुतज्ञं च जानामि त्वां खगं तथा |
अतो ऽहं जानती राजन्प्रतिबोधार्थमुद्यता || ४४ ||
तस्माद्विप्रमिमं चैव तेषां पितरमव्ययम् |
धनेन योजयस्वाद्य पुत्रं राज्ये ऽभिषिच्य च |
श्वो गच्छावो वनं राजन्मा कालं प्रतिपालय || ४५ ||
राजा तत्सर्वमखिलं कृत्वा पत्न्या सहव्रतः |
जगाम वनमुद्दिश्य योगेन च दिवं ययौ || ४६ ||
पञ्चालो ऽपि गते तस्मिंस्तपः कृत्वा सुदुश्चरम् |
चकार पारणं चैव यक्षत्वं चाप्यवाप ह || ४७ ||
ब्रह्मधन्वा च कालेन सुमहात्मा दृढव्रतः |
हिमवत्तनयां देवीं तपसा समपश्यत || ४८ ||
वरदां तां तदा दृष्ट्वा ब्रह्मधन्वाब्रवीच्छुभाम् |
इच्छामि कामरूपित्वं त्वद्भक्तित्वं च नित्यदा || ४९ ||
कृच्छ्रं महच्च प्राप्तस्य त्वयैवोद्धरणं ततः |
एवमस्त्विति सा चोक्त्वा जगामेष्टां गतिं तदा || ५० ||
ब्रह्मधन्वापि मत्तो ऽभून्मदनेन दुरात्मवान् |
स भूत्वा धार्मिकः पूर्वमधर्मेणाभिपीडितः || ५१ ||
अभिमेने स कन्याश्च ऋषिपत्नीश्च सर्वशः |
भर्तृरूपेण गत्वा च कामेन स विमोहितः |
न च कश्चिद्विजानाति तथावर्तन्तमन्तशः || ५२ ||
अथ हाल इति ख्यातो मृगचारी महातपाः |
तस्य पत्नी सुधर्माभून्नाम्ना रूपवती दृढम् || ५३ ||
कथयन्ति हि तां देवाः सिद्धाश्च सह चारणैः |
असमा रूपतो ऽन्याभिस्त्रिषु लोकेषु भामिनी || ५४ ||
- - - - - - - - - - - - - - - - |
न च तस्याः शुभापाङ्ग्या अन्तरं स बुबोध ह |
यस्मिन्काले भवेत्तस्या विरहः पतिना सह || ५५ ||
स ब्रह्मधन्वा तां श्रुत्वा तथा रूपवतीं सतीम् |
पत्यास्या विरहाकांक्षी व्याघ्ररूपं चकार ह || ५६ ||
कृत्वा च सुमहद्रूपं विकृतं भैरवं तदा |
अत्रासयन्मृगान्व्यास दर्शनेन सुबालिशः || ५७ ||
तद्व्याघ्रभयसंत्रस्तं मृगयूथं तदा विभो |
मनोनिलवदव्यग्रमदृश्यं सम्प्रपद्यत |
मृगैः सह च हालो ऽपि जीवितैषी तदा गतः || ५८ ||
सुधर्मा ब्राह्मणी सापि भयाद्व्याघ्रस्य भामिनी |
स्त्रीस्वभावाच्च पतिता नान्वगच्छन्मृगव्रजम् || ५९ ||
एकाकिनीं च तां दृष्ट्वा ब्रह्मधन्वा दुरात्मवान् |
व्याघ्ररूपं समुत्सृज्य तामिदं प्रत्यभाषत |
मृदुना सान्त्वयुक्तेन वचसा भयपीडिताम् || ६० ||
मा भीर्भवतु ते भद्रे पतिस्ते ऽहं सुमध्यमे |
मृगराजो गतो ऽसौ च समाश्वस मम प्रिये || ६१ ||
तं समाश्वस्य सापश्यत्पतिरूपं महायशा |
हृदा चाचिन्तयद्दृष्टो मयासौ तैर्मृगैः सह |
जीवितैषी पलायन्वै कुतो ऽयं पुनरागतः || ६२ ||
देवेन्द्रो मां दुराचारः सदा धर्षत्यतन्द्रितः |
सो ऽयं कामयितुं प्राप्तः किं न स्यादन्तरैषिवान् |
तस्माद्द्रक्ष्याम्यहं सम्यग्दुष्टं दिव्येन चक्षुषा || ६३ ||

सनत्कुमार उवाच |

एतस्मिन्नन्तरे सो ऽथ ब्रह्मधन्वा करे ऽग्रहीत् |
तामिदं चोचिवान्हृष्टः किं त्वं चिन्तयसे हृदा || ६४ ||
न मामालिङ्गसे ऽद्य त्वं मृत्योरास्याद्विनिर्गतम् |
ननु ते ऽहं प्रियो भर्ता मा क्रुधो वरवर्णिनि || ६५ ||
ततस्तां स तदा दौष्ट्यात्कपोले समजिघ्रत |
परिष्वज्य च दुष्टात्मा गात्रैर्गात्राण्यपीडयत् || ६६ ||
नीवीं विस्रंसयच्चैव अधरं चापिबद्बलात् |
बुबुधे सा च तं दुष्टं कर्मणा तेन शोभना || ६७ ||

सुधर्मोवाच |

न त्वं मम पतिर्मूढ शक्रस्त्वं नात्र संशयः |
उभयोर्मदनस्यास्ति विषमो ऽध्वा सुदुर्मते || ६८ ||
स तया त्वेवमुक्तस्तु अवधूतश्च सर्वशः |
पपात धरणीपृष्ठे स्वं च रूपं प्रपद्यत || ६९ ||
ततः सा क्रोधताम्राक्षी धक्ष्यमाणेव चक्षुषा |
निरीक्ष्य वदनं सुभ्रूरिदं वचनमब्रवीत् || ७० ||
ऋषिपत्न्यस्त्वया बह्व्यो व्यंसिता दुष्टचेतसा |
न मादृशी त्वया काचिदन्या ह्यासादिता पुरा || ७१ ||
इदानीं कर्मणस्तस्य पूर्वमाचरितस्य ते |
फलं प्राप्तमिदं पश्य मत्सकाशाद्दुरासदम् || ७२ ||
यदेव रूपं कृत्वा तु मृगानत्रासयद्बलात् |
विचरिष्यसि तेनैव रूपेण बहुलाः समाः || ७३ ||
अशक्तश्चापि हन्तुं त्वं भविता मानुषं क्वचित् |
षष्ठे च काले सम्प्राप्ते मृगं भक्ष्यमवाप्स्यसि || ७४ ||

सनत्कुमार उवाच |

अभिव्याहृत्य तत्क्रूरं शुभाचारा मनस्विनी |
जगाम तान्मृगांस्तत्र ततः पतिमपश्यत || ७५ ||
सो ऽपि दुःखेन संतप्तो मन्वानस्तां हतेति च |
विलपन्नेव तां दृष्ट्वा परिष्वज्येदमब्रवीत् || ७६ ||
दिष्ट्या त्वमसि सम्प्राप्ता मृत्योरास्याद्विनिःसृता |
कच्चिन्न तेन दृष्टासि मृगराजेन शोभने || ७७ ||

सुधर्मोवाच |

नासौ मृगेन्द्रो दुर्बुद्धिः को ऽप्यसौ कामरूपवान् |
मदर्थे समनुप्राप्तो मया दग्धः पतङ्गवत् || ७८ ||
स शापान्मम दुष्टात्मा शार्दूलप्रकृतिं गतः |
राजेव शक्तिशापेन सौदासो राक्षसीं तनुम् || ७९ ||

सनत्कुमार उवाच

तस्यास्तद्वचनं श्रुत्वा हालो धर्मार्थतत्त्ववित् |
दिव्येन चक्षुषापश्यद्ब्रह्मधन्वानमच्युतम् |
तामुवाच सतीं भार्यामिदं स करुणात्मकः || ८० ||
कृतं दुष्टं त्वयात्रेयि सद्भिः सर्वविगर्हितम् |
महतस्तपसस्ते ऽद्य क्षयो ऽयं सुमहान्कृतः || ८१ ||
न दुष्यन्ति स्त्रियः साध्वि नद्यो यद्वद्धि जन्तुभिः |
न चैव शक्तो धर्मेण संगुप्तां त्वां प्रधर्षितुम् |
यथा विषेण संछन्नमन्नं भोक्तुं हि मानवः || ८२ ||
अत्र ते वर्तयिष्यामि पुरावृत्तं महातपे |
यत्पतिव्रतया पूर्वं कृतं दीप्तेन तेजसा || ८३ ||
आसीद्भलन्दलो नाम ऋषिः परमधार्मिकः |
विद्वांश्चैव दयावांश्च पृथिवीवद्व्यवस्थितः || ८४ ||
ऋग्नामा तस्य भार्याभूद्वासिष्ठी पुण्यलक्षणा |
रूपेणाप्रतिमा साध्वी न तस्याः स्त्री समा क्वचित् || ८५ ||
पतिव्रता महाभागा सर्वधर्मविदुत्तमा |
तस्याः पतिमृते नान्यद्दैवतं भुवि विद्यते || ८६ ||
अपश्यन्हि कदाचिद्वै देवास्तां कमलेक्षणाम् |
तस्या रूपगुणोन्मत्ता लेभुर्न धृतिमेकशः || ८७ ||
न शक्यते च सा प्राप्तुं न दूतीभिर्न कर्मणा |
न दानेन न संमानैर्न बलान्न च सेवया || ८८ ||
वह्निस्तामग्न्यगारस्थः प्रविष्टामग्रहीच्छुभाम् |
न चापि साहमस्मीति न च नास्मीत्यथाब्रवीत् || ८९ ||
न क्रोधो नापि दर्पो ऽस्या न च मानो न मत्सरः |
तस्याः प्रियमभून्नान्यत्पतिमेवाभ्यचिन्तयत् || ९० ||
विभावसुरपि व्यक्तमियं मामिच्छतीति ह |
अभ्युपेत्य नु दुष्टेति भावेन सुरसत्तमः |
अथ हित्वा स्वकं देहमदेहः समपद्यत || ९१ ||
एवं वै भास्करो वायुर्वरुणश्चन्द्र एव च |
सर्वे विदेहाः संवृत्तास्ततस्तां सम्प्रसादयन् || ९२ ||
सापि तान्नावदत्किंचित्पुरुषात्माभिशङ्कया |
भर्तुश्चाकथयत्सर्वं स तानिदमुवाच ह || ९३ ||
इयं पत्नी महाभागा मम सर्वाङ्गसुन्दरी |
नेयं कुप्यति युष्माकं जाने ह्यस्या व्रतं शुभम् || ९४ ||
मत्तो ऽपि वो भयं नास्ति नाहं कुप्ये कथंचन |
मत्प्रसादाद्विदेहापि देहवन्तो भविष्यथ || ९५ ||
ततस्ते देहवन्तो वै तुष्टुवुस्तं भलन्दलम् |
ऊचुर्वरं वृणीष्वाद्य तुष्टाः स्मस्तव सर्वथा || ९६ ||
सोवाच रजसा स्त्रीणां शुद्धिः स्यान्मदनुग्रहात् |
मनोवाक्कर्मभिर्मुक्ता व्यवहार्या भवन्तु च |
पवित्राः सर्वतः शुद्धा अदुष्टाः स्त्रिय एव हि || ९७ ||

हाल उवाच |

ततस्ते तं नमस्कृत्य सभार्यं ब्रह्मवादिनम् |
जग्मुर्देवाः प्रशंसन्तः सर्वे वह्निपुरोगमाः || ९८ ||
एवं त्वमपि धर्मज्ञे नित्यं पतिमनुव्रता |
कस्त्वां समर्थो देवो ऽपि स्प्रष्टुमन्यः कुतो जनः || ९९ ||
तीर्थभूताः स्त्रियश्चापि न दुष्यन्ति कथंचन |
मद्रूपं कृतवान्यस्मात्तस्माच्छापं च नार्हति || १०० ||
तस्मात्करिष्ये तस्याहं दुष्टस्यापि हि शोभने |
अनुग्रहं धर्मयुक्तं येन श्रेय अवाप्स्यति || १०१ ||
व्याघ्रस्यापि प्रिये तस्य स्मृतिर्नित्यं भविष्यति |
सर्वकार्येषु धर्मेषु धर्मेण च करिष्यति || १०२ ||
यतो ऽस्य कामरूपित्वं येन मत्तः सदा ह्यभूत् |
तत एव पुनः श्रेयः प्राप्स्यते मदनुग्रहात् || १०३ ||

सनत्कुमार उवाच |

स एष व्यास दुष्टात्मा विश्वामित्राश्रमे रतः |
अग्रारण्ये सदा ह्यासीद्देव्या गणपतिः कृतः || १०४ ||
य इमं तस्य माहात्म्यं धारयेच्छ्रावयीत वा |
सततं ब्राह्मणं व्यास योगैश्वर्यमवाप्नुयात् || १०५ ||
योगेश्वरत्वं कांक्षद्भिरेतदध्येयमन्तशः |
जन्मान्तरं समासाद्य प्राप्नुवन्ति न संशयः || १०६ ||
शृणुयाद्य इमं सततं शुचिरेकमना मनुजः |
स जहाति-म्-अधर्मकृतं स सुरेन्द्रपुरं व्रजते || १०७ ||
इति स्कन्दपुराणे सप्तपञ्चाशो ऽध्यायः ||