सनत्कुमार उवाच |

ततस्तां कौशिकीं तत्र प्रस्थाप्य हिमवत्सुता |
विरेमे तपसस्तीव्रात्सस्नौ च विधिवत्तदा || १ ||
वसाना वाससी शुक्ले दिव्यस्रगनुलेपना |
पार्श्वस्थमथ संवीक्ष्य प्रोवाच वरदास्मि ते || २ ||
एवमुक्तवतीं देवीं शिखरं मूर्तिमत्तदा |
प्रणिपत्य वरं वव्रे मयि सांनिध्यमस्तु ते || ३ ||
नाम चैव मम ख्यातिं तव नाम्नाभिलक्षितम् |
यातु लोकेषु सर्वेषु त्वत्प्रसादान्महेश्वरि || ४ ||
अग्निश्च वरदां वव्रे मा गाः कोपं मयीश्वरि |
सदापुष्पफलत्वं च वृक्षास्तां तत्र वव्रिरे || ५ ||
सुप्रसन्ना भवास्माकं त्वयि भक्तिश्च नो ऽस्त्विति |
ततस्तां वव्रिरे देवीं सर्वाश्च परिचारकाः || ६ ||
उपास्यमाना बह्वीभिर्देवताभिर्गिरीन्द्रजा |
अभिभूयान्यतेजांसि भानवीव बभौ प्रभा || ७ ||
हृदये ऽपि स्थिता पत्युः पतौ हृदयसंस्थिते |
सा वै गिरीन्द्रतनया विमुक्तास्मीत्यमन्यत || ८ ||
अथ सा तेजसां धाम पतिं सर्वजगत्पतिम् |
वरदा वरदं द्रष्टुं गमनायोपचक्रमे || ९ ||
नमस्कृता तद्वनदेवताभिः प्रदक्षिणीकृत्य समिद्धमग्निम् |
ऋषींस्ततो वन्द्यतमाभिवन्द्य जनं च तेषां प्रतिपूज्य पूज्या || १० ||
उत्पपात ततो व्योम सा सार्धं सोमनन्दिना |
सिंहेनेव जगद्धात्री गणैः परिजनेन च || ११ ||
वियति जलदवृन्दान्विक्षिपन्ती स्वधाम्ना
हिमजलकणशीतैर्वीज्यमाना मरुद्भिः |
गिरिवरतनया सा पत्युरेव स्मरन्ती
मदनदहनमूर्तेराशु पार्श्वं जगाम || १२ ||
स्कन्दपुराण एकोनषष्टितमो ऽध्यायः ||