सनत्कुमार उवाच |

भगवान्देवदेवेशः सर्वभूतपतिर्हरः |
देवीमुवाच वागीश उमां गिरिवरात्मजाम् || १ ||
देवि नन्दीश्वरं देवमभिषेक्ष्यामि भूतपम् |
गणानावाहयिष्यामि किं वा त्वं मन्यसे ऽव्यये || २ ||

देव्युवाच |

सप्तलोकाधिपत्यं च गणेशानां तथैव च |
सर्वमर्हति देवेश नन्दी पुत्रो ममाग्रजः || ३ ||

सनत्कुमार उवाच |

ततः स भगवान्देवः सुरशत्रुनिषूदनः |
प्राङ्मुखः स गणेशानामाह्वानमकरोत्तदा || ४ ||
ततः सहस्रशस्तत्र गणाध्यक्षा मुदा युताः |
सम्प्राप्ताः सर्वलोकेशास्तच्छृणुष्व महामुने || ५ ||
ततः करालदशनो भृकुटीभूषिताननः |
शङ्खहाराम्बुगौरश्च दंष्ट्री स्रग्मी त्रिलोचनः || ६ ||
जटासहस्रोर्ध्वशिरा ज्वालाकेशो महाहनुः |
अग्न्यङ्गारकनेत्रश्च भुजगाबद्धमेखलः || ७ ||
विद्युज्जिह्वो महाकायस्तथा चैवोर्ध्वमेहनः |
सर्पयज्ञोपवीती च परश्वधधरस्तथा || ८ ||
भुजगाबद्धमौञ्जिश्च भुजगैरेव कङ्कणैः |
अट्टहासान्सृजानश्च अशनीपातसंनिभान् |
दिण्डिरित्येव विख्यातो गणपः समदृश्यत || ९ ||
आत्मनः सदृशानां च कोटीभिर्दशभिर्वृतः |
गणपानां सुरेशानां योगिनां दीप्ततेजसाम् || १० ||
ततो ऽपरो महाकेशो महाकायोर्ध्वमेहनः |
त्र्यक्षो ऽनलशतप्रख्यः अशनीपातनर्दनः || ११ ||
नृत्यन्गायंश्च चित्राणि कुर्वन्नाट्यान्यनेकशः |
ज्वलदंष्ट्रो महाहासो बृहत्स्कन्धः पिनाकधृक् || १२ ||
कोटीभिर्दशभिः सार्धं द्विगुणाभिर्महात्मनाम् |
गणानां चित्ररूपाणां युगपत्सम्प्रदृश्यत || १३ ||
सिंहास्यगजकोकास्यैर्द्वीपिशार्दूलकाननैः |
सो ऽषाढिर्नाम गणपो व्यास तत्र समागतः || १४ ||

सनत्कुमार उवाच |

अथान्यो व्यास सम्प्राप्तो युगान्तादित्यसप्रभः |
शतयोजनबाहुश्च दिग्वासाश्चोर्ध्वमेहनः || १५ ||
अतिदीर्घो ऽतिमेढ्रश्च लम्बभ्रूः स्थूलनासिकः |
वृत्तास्यश्च महाक्षश्च भृकुटीसंहताननः || १६ ||
पञ्चयोजनविस्तीर्णो दीर्घो वै तावदेव च |
दंष्ट्राश्चतस्रो वक्त्रेण बिभ्रच्छङ्खेन्दुपाण्डराः || १७ ||
पञ्चजिह्वोर्ध्वकर्णश्च पाशहस्तो मनोजवः |
वृतः कोटीशतेनैव सदृशानामदृश्यत || १८ ||
भारभूतीति विख्यातो महायोगबलान्वितः |
गणपो देवदेवस्य समीपं सो ऽभ्यगच्छत || १९ ||
ततः कुन्देन्दुशङ्खाभं हिमराश्यम्बुसंनिभम् |
मृणालस्फटिकाभं च भस्मकक्षावलम्बनम् || २० ||
गृहीत्वा चाशनीहासं त्रिपादं चीरवाससम् |
शतोदरं त्रिशिरसं त्रिनेत्रं चोर्ध्वमूर्धजम् || २१ ||
ज्वालामालाग्रकेशं च व्याघ्रचर्माजिनाम्बरम् |
वायुवेगं महाहासं भुजगाबद्धमेखलम् || २२ ||
महोरगकृतापीडं शङ्कुकर्णोर्ध्वमेहनम् |
भस्मप्रहरणं चैव महादंष्ट्रं महाहनुम् || २३ ||
महागणपतिं वीरं ज्वर इत्येव विश्रुतम् |
कोटीशतवृतं तं च गणपं सो ऽन्वपश्यत || २४ ||
ततो ऽपरः सौम्यरूपो भस्मदिग्धाङ्ग एव च |
त्रिशूलपाणिर्दिग्वासा महायोगबलान्वितः || २५ ||
बहुवेषधरश्चैव ध्यानयोगपरायणः |
सोमवर्ण इति ख्यातः कोटीशतवृतः प्रभुः |
तादृशानां गणाध्यक्षो देवेनाहूत आगतः || २६ ||
अथापरो महाकायः शूलपाणिर्महाबलः |
युगान्तानलसंकाशः स्थिरः स्थिरयशोबलः || २७ ||
चन्द्रमौलिर्महाकेशश्चतुर्बाहुर्विलोहितः |
एकपादैर्महाकायैस्त्र्यक्षैस्तैः शूलपाणिभिः || २८ ||
वृतः कोटीशतेनैव स्थाणुस्तत्राभ्यवर्तत |
समहापार्षदो रुद्रः सर्वासुरनिबर्हणः || २९ ||
ततो ऽपरः पट्टिसेन ह्रस्वपादोदरः शुचिः |
सहस्रबाहुचरणः सहस्राक्षः प्रतापवान् || ३० ||
करालदशनश्चैव कृष्णसर्पाम्बरच्छदः |
त्र्यक्षश्चन्द्रकृतापीडः कण्ठमालाविभूषितः || ३१ ||
उग्रसेन इति ख्यातः कोटीशतवृतः स च |
आगात्समीपं देवस्य आहूतः स्वयमीश्वरः || ३२ ||
ततो ऽपरः समापेदे देवं चन्द्रार्धधारिणम् |
चतुर्वक्त्रो महातेजाश्चतुर्विंशेक्षणः प्रभुः || ३३ ||
सहस्रबाहुर्ज्वालास्यो महानेत्रोर्ध्वमेहनः |
करालदशनश्चैव शङ्कुकर्णो महानखः || ३४ ||
असिपाणिर्महातेजाः शतपादः शतोदरः |
विद्युत्केशो ऽतिहासश्च तथैवोभयतोगतिः || ३५ ||
अजैकपादिति ख्यातो वृतः कोटीशतेन सः |
काञ्चनोपलवृक्षाढ्यः समेघ इव पर्वतः || ३६ ||

सनत्कुमार उवाच |

आगात्ततो ऽपरो व्यास गणपः सुमहाबलः |
सर्वतोवदनः श्रीमान्सर्वतःपाणिपादधृक् || ३७ ||
ह्रस्वबाहूरुपादश्च अशनिं धारयञ्छुभम् |
शतैर्वृतश्च कोटीनामष्टाभिस्त्वात्मनः समैः |
निकुम्भ इति विख्यातः शतपादोदराननः || ३८ ||
आगात्ततो ऽपरश्चापि विद्युत्केशो महाबलः |
चन्द्रमालाधरो घोरः प्रहसन्प्रविचालयन् || ३९ ||
दण्डधारी महावक्त्रः शङ्खकुन्देन्दुसप्रभः |
गणकोटीशतवृतः परमं परतापनः || ४० ||
ततो ऽपरः सहस्रेण कोटीनां गणपो वृतः |
सूर्यमालास्रजं बिभ्रदाजगाम महातपाः || ४१ ||
स सूर्याप्यायनो नाम देवस्य परमप्रियः |
धनुष्पाणिर्महातेजा विश्रुतः समहाद्युतिः || ४२ ||
तथान्यः सर्पमालश्च चक्राभरण एव च |
चक्रायुधो महातेजा ह्रस्वपादकटीकरः || ४३ ||
स नाम्ना विश्रुतो लोके ग्रहाप्यायन इत्युत |
गणकोटिशतैः षड्भिर्वृतः समनुधावत || ४४ ||
शङ्कुकर्णो ऽभ्ययाच्चैव गणकोट्या महाबलः |
नन्दिकश्चापि दशभिः पिङ्गाक्षो ऽष्टाभिरेव च |
विनायकश्चतुःषष्ट्या कुष्माण्डो नाम विश्रुतः || ४५ ||
हिरण्यवर्णः षड्भिश्च एकपादस्तथैव च |
धूम्रकेशो द्वादशभिः पताकी दशभिस्तथा || ४६ ||
सहस्रघण्टो ऽष्टादशभिस्तपः पञ्चभिरेव च |
सहस्रशीर्षः षड्भिश्च भवः कोटिशतावृतः || ४७ ||
वरो दशभिरभ्यागात्कुम्भकर्णस्तथाष्टभिः |
विष्वक्सेनः सहस्रेण अन्नदस्तु शतेन वै || ४८ ||
आवेशनी तथाष्टाभिः सप्तभिश्च प्रवर्तनः |
महारवः सहस्रेण कोटीनां गणपो वृतः || ४९ ||
चतुर्मुखो द्वादशभिस्तथा बाहूपहारकः |
महाकालः शतेनैव तथाग्निशिखरो गणः || ५० ||
आदित्यमूर्धा कोट्या च तथा चैव धनावहः |
संनामश्च शतेनैव कुक्कुटो ऽष्टाभिरेव च || ५१ ||
कुन्दश्च पञ्चदशभिस्तथा संकोटको ऽपरः |
अमोघभूतिः कोट्या च तथा द्वौ मेघभूतिकौ || ५२ ||
एकपादो ऽपरः षष्ट्या तथा सप्तशिरा गणः |
महाबलश्च नवभिरपस्मारश्च विश्रुतः || ५३ ||
नीलो नवत्या देवेशः पूर्णभद्रस्तथैव च |
निरृतिश्चैव सप्तत्या कोटीनामभ्यगात्सह || ५४ ||
कोटीकोटीसहस्राणां शतैर्विंशतिभिर्वृताः |
ईतयस्तत्र चाजग्मुर्महायोगबलान्विताः || ५५ ||
भूताः कोटिसहस्रेण प्रमथाः कोटिभिस्त्रिभिः |
वीरभद्रश्चतुःषष्ट्या वृषभश्च महाबलः || ५६ ||
मेघः सौदामनीमालो नवत्या संवृतो ऽभ्यगात् |
प्रभाकरश्च विंशत्या विट्पतिश्च महाबलः || ५७ ||
गिरिको मेघनादश्च उदरो मणिरेव च |
काष्ठकर्णश्च दिव्यात्मा बिल्वरूपश्च विश्रुतः || ५८ ||
शतमन्युस्तथा चैव पञ्चाक्षश्चैव वीर्यवान् |
तालकेतुश्च षण्डश्च कापाली गजनाशनः || ५९ ||
संवर्तकस्तथा चैत्रस्त्रैलोक्यदहनस्तथा |
लोकान्तकश्च दीप्तात्मा हेमकुण्डल एव च || ६० ||
मृत्युश्चैव यमश्चैव कालो विषहरस्तथा |
शतमायो महामायः सर्वत्राशरणस्तथा |
एकशृङ्गी च विख्यातस्तथा भृङ्गिरिटिश्च यः || ६१ ||
एते चान्ये च गणपा गुह्या ये च महाबलाः |
तत्राजग्मुर्मुदा युक्ताः सर्वे चित्रास्त्रयोधिनः || ६२ ||
गायन्तश्च द्रवन्तश्च नृत्यन्तश्च महाबलाः |
मुखाडम्बरवाद्यानि नादयन्तस्तथैव च || ६३ ||
रथैर्नागैर्हयैश्चैव वायुमर्कटवाहनाः |
व्याघ्रसिंहबिडालैश्च सर्पैः पक्षिभिरेव च || ६४ ||
श्वापदैश्च तथानेकैरन्यैश्च विविधैः शुभैः |
विमानेषु तथारूढा मनुष्येषु तथापरे || ६५ ||
भेरीशङ्खमृदङ्गैश्च पणवानकगोमुखैः |
वादित्रैर्विविधैश्चैव पटहैरेकपुष्करैः || ६६ ||
भेरीझर्झरसंनादैराडम्बरकडिण्डिमैः |
मड्डुकैर्वेणुवीणाभिर्विवृषैस्तुणवैरपि || ६७ ||
दर्दुरैस्तालघातैश्च कच्छपैः पणवैरपि |
वाद्यमानैर्महायोगा आजग्मुर्देवसंसदम् || ६८ ||
ते विश्वकर्माणममित्रसाहा विश्वेशमेकाक्षरमव्ययं च |
सहस्रनेत्रप्रतिमातिभास्वराः प्रणेमुरुच्चैरपि चाभिनेदुः || ६९ ||
इति स्कन्दपुराणे त्रयोविंशतिमो ऽध्यायः ||