सुशर्मोवाच |

अतः परं पद्ममहं प्रवक्ष्यामि सुदुर्गमम् |
सुकृतीनामलभ्यं च दुष्कृतीनां भयावहम् || १ ||
तत्राग्निस्तापनो नाम धम्यमान इव ज्वलन् |
जन्तवस्तत्र ताप्यन्ते वह्निवर्णा भवन्ति च |
पद्मपत्रनिभाः सर्वे धाम्यमानास्ततस्ततः || २ ||
तस्य मध्ये महास्तम्भो लोहः समवतिष्ठते |
तं ते गत्वा प्रगृह्णन्ति सो ऽप्यग्निमति दारुणः || ३ ||
एवं तत्रानिशं घोरं यातितास्तूच्छ्रयेष्वपि |
नरास्तं यान्ति निःसङ्गं ये तान्मे त्वं निशामय || ४ ||
गुरुभार्यां च यो गच्छेद्गुरुस्वं वा हरेत यः |
देवद्रव्यं भक्षयेच्च नाशयेद्वाप्यभीक्ष्णशः || ५ ||
ब्राह्मणस्वं हरेद्यश्च बलाद्धारयते ऽपि वा |
बालद्रव्यापहारी च स्त्रीधनस्य तथैव च || ६ ||
क्लीवांश्च त्यजते यश्च यो हन्याच्छरणागतम् |
धनं चास्याभिमन्येत देवद्रव्यहरश्च यः || ७ ||
सर्वभक्षश्च यः स्याद्वै यश्च पानीयविक्रयी |
सोमविक्रयिकश्चैव अग्न्युत्सादक एव च || ८ ||
अग्निप्रहरणो यश्च विषप्रहरणश्च यः |
अशस्त्रं यश्च संग्रामे हन्याच्छस्त्रेण मानवम् |
याचमानं तथा चैव उपविष्टमथापि वा || ९ ||
पराङ्मुखं च संसक्तमन्येन सहवादिनम् |
एते सर्वे नरास्तत्र गच्छन्त्यकृतबुद्धयः || १० ||
य इमं शृणुयात्कृतान्तसद्मं प्रयतो नित्यमनेकदुःखसद्मम् |
स न याति तमुग्रशोकपद्मं नरकं मृत्युमिवाति कालसद्मम् || ११ ||
स्कन्दपुराणे चतुश्चत्वारिंशो ऽध्यायः ||