25 यथा दिगम्यरप्रयोगः--चेतनास्तरवः स्वापात् । पत्रसङ्कोच
लक्षणो हि स्वापः, स च सर्वेषु तरुप्वसिद्धः । निश्चितग्रह
णेन सन्दिग्धासिद्धस्य 97निरासः98, यथा--अग्निरत्र बाष्पादित्वेन
सन्दिह्यमानाद्भूतसङ्घातात् । सत्वशब्दात्पश्चादेवकारेण असा
धारणस्य 99निरासः100, यथा--अनित्यश्शब्दः श्रावणत्वात् 101घट
बत् ॥


सपक्ष एव सत्त्वं निश्चितमिति वर्तते । समानः पक्षः
सपक्षः । पक्षेण सह सदृशो दृष्टान्तधर्मीत्यर्थः । सपक्ष एव
सत्त्वं
निश्चितमित्यन्वयसंज्ञकं द्वितीयं रूपम् । 102अत्र सत्त्व
ग्रहणेन विरुद्धस्य निरासः, यथा--शब्दो नित्यः कृतकत्वात्
घटवत् । कृतकत्वं हि नित्यत्वविपक्षेणानित्यत्वेन व्याप्तमिति
विरुद्धमुच्यते । एवकारेण साधारणस्य निरासः, यथा—
नित्यश्शब्दः प्रमेयत्वात् घटवत् । प्रमेयत्वं हि विकल्पविषयी
कृतत्वम्, तच्च सपक्षे आकाशे विपक्षे च घटादौ सर्वत्रा
स्तीति साधारणमुच्यते । सत्त्वशब्दात् पूर्वस्मिन्नेवकारेण
सर्वसपक्षाव्यापिनोऽपि प्रयत्नानन्तरीयकस्य हेतुत्वं कथितम् ।
यथा--अनित्यश्शब्दः प्रयत्नानन्तरीयकत्वाद्धटवद्विद्युद्वत् ।
निश्चितग्रहणेन सन्दिग्धान्वयस्य निरासः, यथा--असर्वज्ञोऽयं
कश्चित् वक्तृत्वादिष्टपुरुषवत् । इष्टपुरुषे सपक्षे च वक्तृत्वम
सर्वज्ञत्वेन व्याप्तमव्याप्तं वा न ज्ञायते ॥


  1. Not found in T. & Gos.

  2. Not found in T. & Gos.

  3. Not found in T. & Gos.

  4. Not found in T. & Gos.

  5. omitted in T.

  6. omitted in T.

  7. Gos. तत्र.