यद्येवं कथमुक्तं भगवता, अस्ति तत्कर्म यत्क्षीणं निरुद्धं विपरिणतमित्याह—
तामेवेति ।
तामेव वासनां चेतःसन्ततावधिकृत्य तत् ।
अस्ति कर्मेति निर्दिष्टं भक्त्या मूलविनाशवत् ॥ १८५१ ॥
भक्त्येति । उपचारेण । यथा मूलद्रव्यप्रसूतस्य हिरण्यादेः फलप्रबन्धस्य स(म)
भावे विनष्टमपि मूलद्रव्यमविनष्टमित्युच्यते तद्वत्कर्मापि ॥ १८५१ ॥